________________
chooooooooooooooooooooooooooooo00000000000000000000
नाणं नियमग्गहणं नवकारो नयरुई अनिट्ठा य । पञ्चनयविभूसिआणं न दुल्लहा सुगई लोए ॥ १ ॥ यद्यपि- नारीनदीनरेन्द्राणां नागनीचनियोगिनाम् । नखिनां च न विश्वासः कर्तव्यः श्रियमिच्छता ॥२॥
सर्वथा नकारकरणं सतां न युक्तम् , तथापि ज्ञाननियमनमस्कारजापनयमार्गनिष्ठादिनकारालङ्कृतमानसानां सुगतिर्न दुर्लभा । तत्र ज्ञानं सुगतिकारकम् । यतः
तैरात्मा सुपवित्रितो निजकुलं तैर्निर्मलं निर्मितं तैः संसारमहान्धकूपपततां हस्तावलम्बो ददे । दत्तं तैरिह सर्वसौख्यजननं सज्ज्ञानदानं नृणां श्रीसर्वज्ञचरित्रपुस्तकमहो ! ये लेखयन्त्यादरात् ॥ ३॥
ये तीर्थनाथाऽऽगमपुस्तकानि न्यायार्जिताथैरिह लेखयन्ति ।
ते तत्त्वतो मुक्तिपुरीनिवासस्वीकारपत्रं किल लेखयन्ति ॥ ४ ॥ ज्ञानिनो हिंसादिवर्जनेन सुगतिः स्यात् । यतः- 'न शुकः क्वापि मांसाशी चत्वरे रामपाठतः । यस्याऽभ्यासः श्रुतांशेऽपि तस्य हिंसामतिः कुतः ? ॥ ५॥ तथाः-उत्समविवेगसंवरपयचिन्तवणवज्जदलियपावगिरी । सोढुवसग्गो पत्तो चिलाइपुत्तो सहस्सारे ॥६॥
(१४३)
00000000000000000000000000000000000000000000000000000