________________
000000000000000000000000000000000000000000000000000000
• धर्मश्रुतिप्रतिक्रान्तियतिस्थितिपुरस्सराः । यास्तत्र स्युः क्रियास्तज्जपुण्यपारो न विद्यते ॥ २॥
कलिबुद्धिः कुरुक्षेत्रे यथा स्नेहवतामपि । तथा स्याद् धर्मशालायामधमस्याऽपि धर्मधीः ॥ ३ ॥ दृष्टान्तो यथा--सं०पेथडदेजनकः कनकजलधरबिरुदः संदेदः कस्मचित् कार्याय देवगिरिं पुरीं प्राप । तत्र गुरून् नन्तुं वाऽप्युपाश्रये गतः । गुरवो वन्दिताः। तत्रैकस्थानोपविष्टान् पौषधशालानिर्मापणविचारं कुर्वतः श्राद्धानप्यवन्दत। तद्विचारमाकर्ण्य श्रीसंघस्याञ्चलयाचनां विदधे-मह्यं प्रसादः क्रियताम्, अहं पौषधशालिकां विधापयामि संघस्य किङ्करोऽस्मि । तेषु मुख्यस्तदाचख्यौ-यूयमजल्पत यौक्तिकमेव, परंसा सकलसंघनिष्पादिता स्याद्, न खेकस्य । यस्तामेकः कारयति, स शय्यातरः स्मृततद्गृहादन्नादिकं न लान्ति यतयः। बहूनां शालाकारापणे प्रतिदिनमेकैकं गृहं त्यजन्ति तथा च वरम् । इत्यादियुक्तिभिः सभ्यैर्बोधितोऽपि न त्यजति कदाग्रहं यदा सः, तदा कोऽपि श्राद्धः क्रुद्धोऽवदत्-भोः! यद्यत्र कोऽपि कारयिता न स्यात्तदा कदाग्रहो भव्यः, कारयितारोऽत्र बहवोऽपीष्टकामयीं शालां, सौवर्णी तु युष्माभिरपि सा न कारयिष्यते । श्रुत्वेदं संघपादे लगिला सौवर्णी कारयिष्यामीति वदन् खीचकार शालानिष्पादनम् । संघेनाऽनुमतिः प्रदत्ता । तथाविधद्रव्यं व ? महीभुजामानुकूल्यं व ? श्रेयांसि बहुविनानि ।
(१२५)