________________
भ्रमरोन्दुरस्त्रीभिर्भृशमुपसर्गितोऽपि शीलव्रतधारी साहसिकत्वेनाऽग्रे गतः । योगी स्त्रीमोहितः स्थितस्ताभिरुच्छाल्य चूर्णीकृतः । गुहान्तराले कनकमयसप्तभूम्यावासे हीण्डोलाट्टखयायामासीनं महानीलव्यन्तरेद्वं ददर्श । सुरेण बहुमानदानपूर्व स्वसमीपे उपवेशितः । अहो ! श्रेष्ठिन् ! त्वं मम भ्राता समागतः। पूर्वजन्मन्यहं जिनदासव्यवहारी राजगृहे अभूवम् । मयैप प्रासादः कारितस्त्वयैष समुद्धृतः । ततो रत्नपोट्टलिकप्रदानपूर्वमुत्पाट्य श्रेष्ठी खगृहे मुक्तः । तदनु प्रतिष्ठामहोत्सवे श्रीगुरुसंघखजनपरिधापनपूर्व रत्नखचितस्वर्णजिह्वा काल्यै प्रदत्ता। संघादिलोकैः कारणं पृष्टम् । तेनोक्तम् - अस्माकं कालीजिह्वाप्रसादात् जीर्णोद्धारधनप्राप्त्यादिमाङ्गलिकानि जातानि । तदनु यावज्जीवं तद्धनं सफलीचक्रे । प्रान्ते दीक्षां लावा सभार्यः प्रथमे देवलोके सुरः समभूत् ।
इति जीर्णोद्धारोपदेशस्त्रयोदशः ।
*0*0*3*
जिनालयसमीपवर्तित्वेन पौषधशालोपदेशानाह—
पुण्याट्टं पौषधागारं तत्रैत्य ग्राहको जनः । व्रतादिपण्यं क्रीणाति क्रमेणाऽनन्तलाभदम् ॥ १ ॥
(१२६)