________________
00000000000000000000
०००००००००००००००००००००००००००००न्न
यस्तृणमयीमपि कुटीं कुर्याद् दद्यात् तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ? ॥ १ ॥ किं पुनरुपचितघनशिलासमुद्घातघटितजिनभवनम् । ये कारयन्ति शुभमतिविमानिनस्ते महाधन्याः॥२॥ , प्रासादकर्मस्थायकारकः कीदृशो विलोक्यते, तदाहन्यायोपार्जितवित्तो मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारकस्याऽधिकारी स्यात् ॥ ३ ॥ ___ इत्यादिगुणभाक् । यथा-राजगृहनगरे धनसारगुणसारौ द्वौ बान्धवौ । वृद्धस्य धनी शीलादिगुणभूषिता, लघोर्भार्या काली परं दुष्टत्वेन कालिकैव । तद्वचसा लघुः पृथग्भूय मुख्यगृहे स्थितः, वृद्धस्त्वपरगृहे । दैवानुभावाद् निर्धर्मस्यापि लघोर्बहुला लक्ष्मीर्बभूव, वृद्धस्याऽल्पा लक्ष्मीः। एकदा ग्रामान्तरनिवासिनः शिलाकुट्टकाः समागताः । गुणसागरगृहद्वारस्थवस्त्राद्यनेकालङ्कारधारिकाली वीक्ष्य तां प्रणम्य तत्पार्श्वे पृष्टम्-स्वामिनि ! कोऽप्यत्रास्ति प्रासादकारयिता'।तया धनयौवनमदेन हास्यार्थ निर्धनखज्येष्ठगृहे प्रहिताः।धन्या तदाऽऽगमनकारणपृच्छापूर्व स्थापिताः । भोजनार्थागतधनसारेण ते दृष्टाः, धनी पृष्टा, तदा देवरजायाप्रेषणादिप्रोक्तम्।तदनु तदाभरणैः प्रासादो जीर्णः समुद्धृतः। प्रतिष्ठाव्ययार्थ धनार्जनाय देशान्तरं गच्छन् मार्गे कस्यापि योगिनो मिलितः। तदुक्त| कल्पविधिना योगना साध योगिकृतमहिषीपुच्छदीपिकाद्योतेन श्रीपर्वतगुहायां प्रविष्टः । अन्तरा वृश्चिक
(१२५)
Annnnnnnoo०००००००००००००००००००००००००००००००००००००००००००