SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 500000000000000000000000000000000 त्रिषष्टिलक्षद्रम्माणां गिरिनारगिरौ व्ययात् । भव्या बाहडदेवेन पद्या हर्षेण कारिता ॥ ७ ॥ भृगुकच्छोद्धारादिप्रबन्धाः स्वयं वाच्याः। एवमपरैर्जीर्णोद्धाराः स्ववित्तानुसारेण कार्याः ॥ ___ इति जीर्णोद्धारोपदेश एकादशः। जिणभवणाई जे उद्धरन्ति भत्तीइ सडियपडियाई । ते उद्धरन्ति अप्पाणं भीमाओ भवसमुदाओ ॥१॥ यथा गोपगिरौ आमनृपः प्रातः स्वमनय॑सिंहासनं बप्पभट्टिसूरये निवेशापयति । तद् दृष्ट्वा विप्रैः ।। क्रुधा ज्वलद्भिर्भूपो विज्ञप्तः-देव ! श्वेताम्बरा अमी शूद्राः, एभ्यः सिंहासनं किम् ? । मुहुर्मुहस्तैरित्थं कदर्थ्यमानः पार्थिवो मुख्यसिंहासनं नवलक्षाभिधं कोशगं कारयित्वाऽन्यल्लघु आरूरुपत् । प्रत्यूषे सूरीन्द्रेण तद् दृष्ट्वा ज्ञातनृपचित्ताशयेनोक्तं राज्ञोऽग्रे| मर्दय मानमतङ्गजदर्प विनयशरीरविनाशनसर्पम् । क्षीणो दर्पाद् दशवदनोऽपि यस्य न तुल्यो भुवने कोऽपि ॥२॥ इदं श्रुत्वा लज्जितेन राज्ञा मुख्यं सिंहासनं मण्डापितम् । पुनरपि विप्राः कथयन्ति । राज्ञा तत्प्रतिबोधनाय | पात्रापानपरीक्षार्थ च रूप्यटङ्ककसहस्राष्टकं विप्रदानाय पर्षदि समानीतम् । तदा सर्वेऽपि विप्रा देव ! वयं चतुर्वेद (१२३)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy