________________
00000000000००००००००००००००००००००००००००००००००००)004
परित्याजनानन्तरं यदि शुद्धिरेवंविधा स्यात् तदा स्खशिरःकण्डूयनं स्वहस्तधर्पणमेव स्यात् । अधुना खप्रभुतया तदधिकं प्रासादं कारयिष्यामि । तेनैषा शुद्धिर्ज्ञाता भृशं वरा । तदनु शिलावर्त्तकस्योक्तम्-भ्रमती विना प्रासादं कुरु । तेनोक्तम्--सारूआरघाटप्रासादकारापणे भ्रमती विना कारापकसंतानं न भवति । मन्त्रिणोक्तम्-संतानेन किं प्रयोजनं दुर्गतिवीपकेन । मम प्रासाद एव विलोक्यते। तदनु भ्रमिविरहितः कारितो बहुद्रव्यव्ययेन । तद्यथा
लक्षत्रयीविरहिता द्रविणस्य कोटीस्तिस्रो विविच्य किल वाग्भटमन्त्रिराजः।
यस्मिन् युगादिजिनमन्दिरमुद्दधार श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ ६ ॥ इत्थं शत्रुञ्जयोद्धारः कृतः ॥ श्रीकुमारपालः ससंघः श्रीरैवताचले समागतः । सांकलिआलीपद्यापार्चे तावता गिरिर्धडहडितः। तदा श्रीहेमसूरिभिर्नृपस्योक्तम्-समकालमधस्तादुपेतस्य पुण्यवत्पुरुषद्वयस्योपरि च्छत्रशिला पतिष्यतीति वृद्धा वदन्ति । तेनाहं पृथक् चटिष्यामि, न त्वत्सार्धम् । तीर्थे मृतिर्भाग्यलभ्या, परं लोकापवादः श्रीजिनशासनोड्डाहश्च । पृथक् पृथक् चटितौ सूरिनृपौ । ततः श्रीआम्बडदेवेन जीर्णदुर्गपार्श्वे वृद्धवालानां सुखारोहणार्थ सुगमा पद्या वताचले त्रिपष्टिलक्षैः कारिता । यतः
(१२२)
10000000000000000000000000000000000000000000000000