________________
-0000000000000000000000
0000000000000000000000000
यथा-- श्रीबाहडदेवमन्त्रिणा श्रीशत्रुञ्जयोद्धाररैवताचलसुगमपद्याकरणभृगुकच्छसमलिकाविहारोहारतीर्थद्वययात्रादिष्ठमनोरथाः खपितृमं उदायनसत्काः सफलीकृताः । तद्यथा-सं०बाहडदेवेन श्रीशत्रुञ्जययात्रार्थ गतेन सकलसंघवात्सल्यार्चापूर्व प्रासादं काष्ठमयं जीर्णमपनीय पाषाणमयः प्रासादो मण्डापितः।। तदनु खकोशाधीशानां प्रासादकर्मस्थायं भलाप्य पत्तने नृपकृतप्रवेशमहः समागतः। कियता कालेन व पनिकस्तव प्रासादः परिपूर्णः संजात इति लेखहस्तः । तस्य षोडश स्वर्णजिह्वा प्रदत्ताः। पञ्चदिनानन्तरं द्वितीयः समागतः। तेनोक्तम्-हे स्वामिन् ! तव प्रासादो भ्रमतीप्रविष्टवायुना फाटितः, इत्युक्ते तस्य द्वात्रिंशत् सुवर्णरसनाः प्रदत्ताः । परिवारेणोक्तम्-तव विषादस्थाने हर्षः कुतः । तेनोक्तं श्रूयताम्-- वेगसरीणां गर्भो दुर्जनमैत्री नियोगिनां लक्ष्मीः । स्थूललं श्वयथुभवं विना विकारेण न भवन्ति ॥ ३ ॥
भूपभ्रूपल्लवप्रान्तनिरालम्बाऽवलम्बिनीम् । खल्पावस्थायिनी लक्ष्मी मन्यन्ते मन्त्रिणो बुधाः ॥४॥ ऋषभपञ्चाशिकायामप्युक्तं महाकविधनपालेनजा तुह सेवविमुहस्स हन्तु मा ताउ मह समिद्धीओ । अहिआरसंपया इव पेरन्तविडम्बणफलाओ ॥ ५॥ ___ व्यापारिणां तु एकः पादो घोटके द्वितीयस्तु खोटके भवत्येवं गोपाला अपि वदन्ति । कदाचिद् व्यापार
(१२१)
0000000000000000000000000000000000000000000000000000