________________
पयत् पेथडः। कियता कालेन च निप्पन्नः शिखरान्तः स्वर्णकलशदण्डध्वजकान्तः प्रासादो रुद्रमहालयतः स्थिरइयेन न्यूनः सं० १३३५ वर्षे सारूआरेति प्रसिद्धघाटमयः यत्र घाटेऽपरेमामन्याचतुरशीतिप्रासादा निष्पद्यन्ते । ततस्तत्कर्मस्थायचिन्ताकारिभिर्वणिक्पुत्रैः सर्वव्ययस्य लेख्यमादातुमारब्धम्, तत्र पूर्वमल्पमूल्यानां दवरकाणामेव चतुरशीतिसहस्रसङ्ख्याजीर्णटङ्कास्तैरुक्तान्तदा पेथडेन तदनुमानेनापरत्रहुद्रव्यव्ययं विचार्य लेख्यवहिका नीरे क्षिप्ता । ततो लोकैरमूल्योऽयं बिहारः पेथडेनापि प्रतिष्ठानसरे सर्वजन समक्षं श्रीगुरुपादमूलिकविहारेतिनाम प्रतिष्ठापितम् । तदन्तश्र त्र्यशीलकुलप्रमाणमारासणीयं श्रीमहावीरविम्वमतिष्टिपत् । इत्यादि सं० पेथडदेझाञ्झणदेप्रासादादिपुण्यकरणीयावदाताः पं० रत्नमण्डनगणिकृतमुकृतसागरकाव्यमध्यगता ज्ञेयाः ॥ इति प्रासादोपदेशो दशमः ॥
जीर्णोद्धारः श्रुतपरिमलामोदितात्मन्यजत्रं पात्रे दानं भगवति जिनाधीश्वरे नित्यभक्तिः । दीनानाथोद्धरणमनिशं विश्वविश्वोपकारः प्राणित्राणं फलमिदमहो ! चञ्चलायाः श्रियोऽस्याः ॥ १ ॥ गजकर्णचञ्चलायाः कमलायाः जीर्णोद्धारादि पुण्यं महाफलं ज्ञेयम् । यतः
राया अमच्च सिट्ठी कुडुम्बिए बावि देसणं काउं । जिन्ने पुव्याययणे जिणकप्पी चावि कारवइ ॥२॥
(120)