________________
-000000000000nnnnnnnr
सं० पेथडदेनामा मन्त्री युष्मदभिधया वाहयति सत्रागारम् ।
'यतः-- परकीयद्रव्येण प्रचुरतरा रक्षयन्ति नाम निजम् । खद्रव्येण परेषां नाम पुनः पञ्चषाः पुरुषाः॥२॥ इति विचिन्त्य हृष्टहृदयो हेमादिप्रधानस्तत्रागत्याऽवेत्य समग्रं वृत्तान्तं रामदेवनृपवचनेन देवगिरिनगरे चतुप्पथान्तःस्थानमभिलषितं पेथडस्य ददौ । तदनन्तरं तेन नीरं खन्यमानेषु पादेषु निर्जगाम; मधुरिमाऽधरितक्षीरं नीरं पीतं च तदा तकैर्लोकः। न चैतावता कौतुकम्; पुण्यभाजां हि सर्वत्र निधानान्यपि निर्गच्छन्ति मिष्टपानीयस्य किमुच्यते ।
पदे २ निधानानि योजने रसकूपिका । भाग्यहीना न पश्यन्ति बहुरत्ना वसुन्धरा ॥ ३ ॥ तदा देवगिरिमध्ये मिष्टोदकाभावात् केनापि पिशुनशुनाभाषितं भूपतेः पुरः-खामिन्निह मधुरमम्भःप्रादुरभूत्, तेन प्रासादास्पदमन्यत्रार्ग्यतामिह वापी कार्यताम्।तदा राज्ञोक्तम्-प्रातरहं तत्रागत्य विलोक्य च कथयिष्यामि। सन्ध्यायां वृत्तान्तमेतद् ज्ञात्वा रात्रावेव तदिनागतबहिःस्थबालदिमध्यात्कियल्लवणमानाय्य रहोवृत्त्या क्षिप्तं चान्तः क्षारतरमकारयन्नीरम् :प्रभाते भूपतिरभ्युपेत्य जलं स्वादितवान् निष्ठ्यूतवांश्च क्षारतया।ततो राजाऽऽदेशात्तत्कालं पादानारो
(११९)