________________
000000000000०००००००००००००००००००००००००००००००00000000000
इति प्रासादोपदेशो नवमः॥
खैर्द्रव्यैर्जिनमन्दिराणि रचयत्यभ्यर्चयत्यर्हतस्त्रिर्भक्त्या यतिनां तनोत्युपचयं वस्त्रान्नपात्रादिभिः । धत्ते पुस्तकलेखनोद्यममुपष्ट-नाति साधर्मिकान् दीनाभ्युद्धरणं करोति कलयत्येवं सुपुण्यार्जनम् ॥१॥ इत्यादितपा-श्रीधर्मघोषसूरिदत्तोपदेशवासितचेतसा सं० पेथडदेवेन सं. झाञ्झणदेवेन च सं० १३२१ वर्षे मण्डपदुर्गकरहेटकजीरापल्लीश्रीशत्रुञ्जयादिपु ८४प्रासादाः काञ्चनकलशाञ्चिताः कारिताः। मण्डपे शतत्रयप्रासादे सौवर्णकलशाः कारिताः । तेनैव देवगिरौ ब्राह्मणैरदीयमानजिनप्रासादकरणार्थ तद्देशासन्नओङ्कारपुरे तत्रत्य ५६कोटिनिष्कधनिकरामदेवनृपमहामात्यप्रधानहेमादिनाम्ना बहवः सत्रागारा बहुपक्वान्नशालिदालिघुतघोलकरम्भादिखादिमस्खादिमादिभोज्यसंभारभासुरा मण्डापिताः। तेषु च कटीकार्पटिकपथिकाः सोत्कण्ठं भोजनं कृत्वा देवगिरिगमनादनु कलिकालविक्रमादित्यशालिसुगाललघुभोजराजशातवाहनवस्तुपालोपमानं दत्त्वा प्रतिगृहं प्रतिहट्टं हेमादेर्गुणप्रशंसनं कुवन्ति स्म ।प्रधानेन चिन्तितम्-मया तु निजपातकमपि कस्याप्यर्पितं नास्ति, परं दानानुसारिणी कीर्तिः, दानं तु कदापि दत्तं नास्ति, परमेतावान् लोको यदि मम सत्रागारं वहमानमाह तर्हि केनापि कारणेन नूनं कोऽपि महापुरुषो मन्नाम्ना वाहयन्नस्ति, तदनु तज्ज्ञानाय प्रहितैर्जनैरागयोक्तम्-मालवीय
(११८)
००००००००००००००००००००००००००००००००००००००००००००००००००