________________
०००००००००००००००००००००00000000000००
बिन्दवः श्रीयशोवीर ! शून्यमध्या निरर्थकाः । सङ्ख्यावन्तो विधीयन्ते लयैकेन पुरस्कृताः ॥ ८ ॥ यशोवीर ! लिखत्याख्यां यावच्चन्द्रे विधिस्तव । न माति भुवने तावदाद्यमप्यक्षरद्वयम् ॥ ९ ॥
साधर्मिकवात्सल्ये जायमाने म० अनुपमदेव्याः साधून प्रतिलाभ्य प्रणमन्त्या उपरि समर्दवशात् साधुहस्ताद घृतभृतपात्रं पतितं, तदुकूलमभ्यक्तं सकलम् ; तदा तस्मै साधवे गालिः प्रदत्ता वण्ठेन । मन्त्रिण्या क्रुद्धया खगृहान्निष्कासितः-अरे ! तैलिकपत्नी कान्दविकपत्नी चेदभविष्यं तदा प्रतिपदं घृतादिमलिनान्येव वस्त्राण्यभविष्यन् ; एवं च वस्त्राभ्यङ्गो भाग्यलभ्यः। तदा कुपितं मं० तेजःपालमित्यसान्त्वयत् , तव पत्युः प्रसादात् मुनिजनपूज्यपात्रस्थैः स्नेहैरभ्यङ्गः स्यात् । इति मन्त्री श्रीसङ्घश्चमत्कृतः।
दानं प्रियवाक्सहितं ज्ञानमगर्व क्षमाऽन्वितं शौर्यम् । त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥१०॥
लक्ष्मीश्चला शिवा चण्डी शची सापत्न्यदूषिता । गङ्गाऽन्यगामिनी वाणी वाक्साराऽनुपमा ततः ॥११॥ इत्यादिजैनादिभिस्तुता आह
अधीता न कला काचिन्न च किञ्चित् कृतं तपः । दत्तं न किञ्चित् पात्रेभ्यो गच्छत्येव वरं वयः ॥१२॥ एवं सर्वप्रकारैरपरैर्भाग्यवद्भिः खं धनं सफलीकार्यम् ॥ श्रीवस्तुपाललक्ष्मीसफलतासंबन्धाः प्रबन्धेभ्यो ज्ञेयाः॥
(११)
100000000000000000००००००००००००००००००००००००००००००००००००