________________
000000000000000000000000000000000000000000000000000
वामारिप्रवर्त्तनप्रासादकारापणादिपुण्यकरणीयानि कार्याण्यनवरतमिति गुरुभिरादिष्टम् । तदनु श्रीअम्बा समाराधिता प्रसन्ना जाता वरं वदेति वदन्ती मन्त्रिणा पुत्रप्राप्तिप्रासादनिष्पत्तिवरद्वयं मागितम् । देव्योक्तम्-प्रासादं पुत्रं वा ददामि, न द्वयं, तथाविधकर्माभावात्। श्रीदेवी भार्या पृष्टा । तयोक्तम्-प्रासाद एव न तु पुत्रः, श्वाननकुलकुर्कुटादिभवे सुलभत्वेन पुत्राणाम् । तदनु श्रीअम्बिका अर्बुदे गता, श्रीमातया सख्या खावासे निमन्त्रिता वासार्थम्।अम्बिकयोक्तम्-जैनप्रासादं विना मम स्थितिन। ततः श्रीमातयाऽम्बिकाया बकुलचम्पकयोरधः७२लक्षद्रम्मयुता भूमिः समर्पिता।ततोऽम्बिकावचसा चन्द्रावतीश१२सुरत्राणसेव्यविमलेन कुङ्कमगोमयावलिकाभिज्ञानेन पादः खनितः, ७२लक्षद्रव्यनिधानं निर्गतम् , प्रासादो मण्डितः, परं दिवा कृतो रात्रौ पतति स्म । एवं ६मासाः। स्मृता देवी समागत्योवाच-एतद्भवभिनेता वालीनाहनाग उपवासत्रयेण पूजोपहारयुतेन त्वयाऽऽराधनीयः। निरवधनैवेद्यं यदि याचते तदा देयम् , मद्यादि तुनैव; खडमाकृप्य भापनीयः। तथा कृतम् । सावधनैवेयमार्गणे खड्डेऽम्बावताराद् वालीनाहो नष्टोऽम्बावचनेन क्षेत्रपालीभूय स्थितः। निष्प्रत्यूहं प्रासादो निष्पन्नः। सं० १०८८ वर्षे श्रीयुगादिजिनबिम्बं प्रतिष्ठापितम् । स्थापितं मूलनायकत्वेन नागेन्द्रादिधसूरिप्रतिष्ठितदादाऽभिधयुगादिप्रतिमा प्रतिष्ठिता भूमेनिर्गता श्रीअर्बुदाचलजिनतीर्थमित्यादिपरदर्शनिनां संसूचिकाऽम्बिका खञ्जक्षेत्रपालयुता मठे स्थापिता। प्रतिष्ठा कारिता