________________
500०००००००००००००००००००००००००००००००००००००००००००००००००
तदुत्सवे श्रीसङ्घश्चतुर्विधः पूजितः । मार्गणास्तथा कृतार्थीकृता यथाऽद्यापि विमलश्रीसुप्रभातमित्याशीर्वाद कथयन्ति । कोऽर्थः-विमलो मन्त्री श्रीदेवी भार्या तयोर्यथा सुप्रभातमभूत्तथा भवतामपि । अत्र चारणवचः
मंडी मुरकी रइ करइ मिलिय मंसग्गाह । विमलहिं खंडउं कड्ढिओ नट्ठउ वालीनाह ॥५॥ पञ्चसहस्रीं ददौ । एवमपरैर्भाग्यवद्भिः प्रासादाः कार्याः ॥ इति प्रासादोपदेशोऽष्टमः ॥
सारं तदेव सारं नियुज्यते यजिनेन्द्रभवनादौ । अपरं पुनरपरधनं पृथ्वीमलखण्डपिण्डं वा ॥ १॥ इह जगति सारं धनं तदेव सारं प्रधानम् , यजिनश्रीवीतरागदेवप्रासादेपु नियुज्यते व्ययीक्रियते; अपरं धनं परकीयधनमेव, पृथ्वीखण्डं मलपिण्डं वा ज्ञेयं सत्पुरुषैः । यथा-श्रीवस्तुपालतेजःपालौ प्रथमयात्रायां भूरिसङ्घयुतौ धवलककात् हडालाग्रामे समागतो, तावता मार्गे धाटीलुण्टाकभीतिः श्रुता, तदा परस्परमालोच्य निशायां रूप्यटङ्ककलक्षभृतताम्रकलशान् गृहीत्वा परमाप्तसेवकैः सह तटाकासन्नगोधूमक्षेत्रमध्यस्थशमीतरुतले समागताः। खनितं तत्र, तावता वस्तुपालभाग्येन निधिः सौवर्णः संमुखो निर्गतः; महान् विस्मयः समजान; खधनं तदपि तत्रैव स्थापितम् ; पश्चादागतौ परं चिन्तातुरौ; तदा मं० अनुपमदेव्या चिन्तायाः कारणं पृष्टम् । निविजने प्रोक्तं ताभ्याम् । तदनु तयोक्तम्-स्वामिन् ! धनमित्थं न गुप्तीक्रियते, तथा गुप्तीक्रियते यथा सर्वेऽ
(११३)
Pooooooooooooooooooooooooooooooooo