________________
०००००००००00000000000000000000000000000000
पञ्चशतसाराश्वपरिवृतः पञ्चकोटिहेमोष्ट्रशम्बलो नष्टा चन्द्रावत्यां गतः; तीत्या १८शताधिपधारावर्षनृपो नष्टः सिन्धुदेशे गतः; तदनु तदावासे स्थितस्तत्रत्यमाण्डलिकैस्तत्र नृपतिः कृतः; प्रबलसैन्यः शाकम्भरीमेदपाटजावालिपुरादिनृपतिशतं साधयित्वाऽदोपरि च्छत्रमधारयत् । तेनैकदा रोमनगराधिप१२सुरत्राणा अकस्मान्महासैन्यमेलापकं कृत्वा सुप्ता एव वेष्टिता युद्धे भग्नाः किङ्कराः संजाताः; तत्सत्कद्वादशातपत्राणि खशीर्षोपरिधारितानि । तद्यथा
त्रिलक्षोत्तमवाजीन्द्रो विमलो दण्डनायकः । अभूमिपातिगव्यूतपञ्चकासादिसायकः ॥ ३ ॥ प्राग्वाटवंशमूईन्यो भूपालशतसेवितः । अम्बादत्तवरः क्षोणी शास्ति दुर्द्धरविक्रमः ॥ ४ ॥ (युग्मम्)
तद्देवावसरवादितताम्रनिःस्वानप्रतिच्छन्दधडहडितार्बुदनिर्घातश्रवणभीतः प्रह्लादनपुरस्थभीमनृपः कोटिद्रव्यं प्राभृतीचकार स्वप्रधानप्रेषणपूर्वम् । श्रीविमलेन स्वामिद्रोहपरिहारकृतज्ञेन गूर्जरत्रायाममरधीरप्रदत्ता मज्जननीजन्मभूमिरिति मत्वा प्रधानाः परिधाप्य पश्चात्प्रहिताः । एकदा चउहिं ठाणेहिं नरयाऊअं बज्झन्ति जीवा, तं जहा-महारंभयाए महापरिग्गहाए कुणिमाहारेणं पंचिंदियवहेणमित्यालापकं श्रीधर्मसारसू- | रिमुखात् श्रुत्वा पापभीतः पादे पतितः संग्रामाहतमनुष्यसहस्रादिमहापापालोचनां जग्राह । सर्वजी
0000000000000000000०००००००००००००००००००००००००००००००००००
(१११)