________________
श्रीवीरादिप्रासादचतुष्टयं कारितम् । एवमपरैर्जिनविहारः कार्यः । इति प्रासादोपदेशः षष्ठः ।
यावत्तिष्ठति जैनेन्द्रं मन्दिरं धरणीतले । धर्मस्थितिः कृता तावत् जैनसौधविधायिना ॥ १ ॥
देवसूरयो मेडताग्रामे चतुर्मासकं कृत्वा फलवर्द्धिग्रामे मासकल्पं स्थिताः । तत्रैकदा श्रे० पारसेन तत्र - त्यजालिमध्ये स्मिताम्लानपुष्पार्चितो लेष्टुराशिर्द्दष्टः । गुर्वादेशेन स विरलीकृतः, पार्श्वविम्वं दृष्टं, स्वप्ने श्रीपार्श्वेनोक्तम् - मम प्रासादं कारय, मामर्चय, पार्श्वेन स्वद्रव्याभावे उच्यमाने मदग्रढौकिताक्षतवर्णीभवनेन द्रव्यं बह्वपि भावीति प्रत्ययो दर्शितः । ततः कारितः । एकपार्श्वे मण्डपादि सर्वे निष्पन्नं, तावता तत्पुत्रेणाऽऽगृह्य द्रव्यागमस्वरूपे पृष्टे पारसेन यथावत्कथिते तत्सुवर्णीभवनं स्थितम् । द्रव्याभावात्प्रासादस्तावानेव तस्थौ । सं० ११९९ वर्षे फाल्गुनशु० १० दिने विम्बस्थापनं, सं० १२०४ माघसुदि १३ ध्वजारोपः फलवर्द्धिपार्श्वस्थापना, अजमेरुनागपुरादिश्राद्धाः सर्वे चिन्ताकराः संजाताः ॥ इति सप्तमोपदेशः ॥
कारयन्ति जिनेन्द्राणां तृणावासानपीह ये । मणिरत्नविमानानि ते लभन्ते भवे भवे ॥ १ ॥ माणिक्यहेमरत्नाद्यैः प्रासादान् कारयन्ति ये । तेषां पुण्यैकमूर्त्तीनां को वेद फलमुत्तमम् ? ॥ २ ॥ दृष्टान्तो यथा-श्रीविमलदण्डनायको गूर्जरत्राधिपश्री भीमप्रधानः खलदूषितराजचित्तं ज्ञात्वा रात्रौ पत्तनात्
(११०)