________________
00000000000000000000000000
900000000००००००००००००००
मं० जाम्बान्वये सज्जनदण्डनायकः श्रीसिद्धराजेन योग्यतां ज्ञात्वा सुराष्ट्रदेशे व्यापाराय नियुक्तः, तेन नृपमविज्ञाप्यैव वर्षत्रयोद्गाहितेन७२लक्षभीमप्रियद्रव्यव्ययेन गिरिनारे श्रीनेमीश्वरस्य विद्युत्पातविनाशितं काष्ठमयं पूर्वप्रासादमपनीय नूतनः प्रासादः कारितः । तदनु केनचित्खलेन राज्ञो विज्ञप्तम् । राज्ञः पुराऽपि सोमनाथाभि/ ग्रहोऽभूत्तदनु पत्तनतःसोमनाथं नवा संकल्यां गतः सज्जनःसंमुखमागतःप्रणामः कृतश्च,राजा पश्चाद् विलोकितम् । ततः साजणेन चिन्तितम्-रुष्टो राजा मदुपरि। एवं सति वामनस्थलीवास्तव्यश्रे०सामन्तादिव्यवहारिपार्श्वे गत्वा यावत्प्रमाणं व्ययितं, तावत्सजीकृतं धनंतदनु राज्ञा आलिगप्रधानः पृष्टः कोऽयं पर्वतः,किं-तीर्थम् ? । तेनोक्तम्देव ! श्रीगिरिनारतीर्थ समुल्लध्य न गम्यते।ततश्चटितो राजा नवीनं मनोहरं प्रासादं दृष्ट्वोवाच-तस्य जननी धन्या येनेदं कारितम्। पृष्णिस्थेन साजणेनोक्तम् ।माता मयणल्लदेवी धन्या यया एवंविधं पुरुषरत्नं प्रसूतम्। एवं वचःश्रुत्वा राज्ञा संमुखं विलोक्योक्तम्-किमिदम्। मन्त्रिणोक्तम्-स्वामिन् ! गिरिनारप्रासादजीर्णोद्धारपुण्यं सङ्घोपढौक्यमानोग्राहितद्रव्यप्रमाणद्रव्यं वा द्वयोर्मध्ये एकतरमवधारयतु । तेनेति विज्ञप्ते सिद्धाधिपस्तद्वचनरञ्जितस्तीर्थोडारपुण्यमेवाङ्गीचकार । १२ ग्रामा देवभाण्डागारे समर्पिताः पूजार्थ प्रासादरक्षार्थम् । ततः पुनरप्यधिकारमधिगम्य श्रीशत्रुञ्जयरैवतमहातीर्थयोर्दुकूलमयी १२ योजनावध्येकध्वजा दत्ता । व्यवहारिभिस्तद्रव्येण वामनस्थल्यां
0000000000000००००००००६
0000000000000