________________
000000000000000000000000000000000
पत्तनमध्ये श्रीऋषभदेवप्रासादः कारापितः ८५ अङ्गुलऋषभबिम्बयुग् राजविहारनाम्ना । तत्रैकदाऽऽरास- हूँ णीय मं० गोगासुतः पासिलः सामान्यवस्त्रो निर्द्धनः पत्तने राजविहारे देववन्दनार्थमागतः प्रौढप्रतिमां वीक्ष्य सविस्मयः श्रीआदिबिम्बं मवति; तदवसरे ९० लक्षहाटकाधिपव्य० छाडापुत्र्या बालविधवदेववन्दनपरश्रा० हांस्या हास्येन प्रोक्तस्त्वमेवंविधं किं नव्यं कारयिष्यसि । ततः शकुनग्रन्थि बध्वा तेनोक्तम्--तदा त्वया भगिन्या प्रतिष्ठामहोत्सवे समागन्तव्यमेव । ओमिति प्रतिपन्नम् । तदनु दशोपवासैरम्बिका आराधिता आरासणाधिष्ठात्री। सन्तुष्टया १६ प्रहरैः स्वर्णखानिषु प्रासादनिष्पत्तियोग्यं स्वर्णदलं तव निस्सरिष्यति, इति वरो दत्तस्तदनु ३ प्रहरैर्दीनार४५सहस्रमानं निर्गतं प्रासादप्रतिमादिनिष्पन्नम् । श्रीदेवसूरिभिः प्रतिष्ठा कृता, तदवसरे हांसी निमन्त्रिता । वस्त्रार्पणे स्वधर्मबान्धव मं० पासिलपार्श्वे मेघनादमण्डपो मार्गितः, नवलक्षद्रम्मव्ययात् तया कारितः। तथा सं० ११९८ वर्षे रुद्रमहालयचिन्ताकारकप्र आलिगकारितनगरमध्यचतुर्मुखप्रासादः राजविहाराभि- हूँ धानप्रदानेन मं० आलिगस्य बहुग्रामग्रासार्पणेन सिद्धभूपतिना खीकृतः । श्रीसिद्धपुरे रम्ये सिद्धनृपो देवसूरिगुरुवचसा तुर्यद्वारं चैत्यं कारितवान् तुर्यगत्यर्थी ॥ इति प्रासादोपदेशः पञ्चमः ॥ जीर्णोद्धारः कृतो येन विभवेन सुचारुणा । जिनाज्ञा पालिता तेन क्लेशकूपारपारदा ॥१॥
(१०८)
+000000000000000000000000000000000000