________________
काष्ठादीनां जिनावासे यावन्तः परमाणवः । तावन्ति वर्षलक्षाणि तत्कर्ता स्वर्गभाग् भवेत् ॥ ३ ॥ परमाणुखरूपं लौकिकम्जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । तस्य त्रिंशत्तमो भागः परमाणुः स उच्यते ॥ ४ ॥ नूतनाहहरावासे विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं जीर्णोद्धारे विवेकिनाम् ॥ ५ ॥ अमुना हेतुना पद्मचक्रवर्तिना मातुः प्रमोदाय प्रतिदिनमेकैकजिनायतनालंकृता भूः, तथा-संप्रतिवर्त्तयामास सौवायुर्वासराण्यहो ! । नव्यकारितषट्त्रिंशत्सहस्रार्हद्गृहर्मुदा ॥ ६॥ श्रीसम्प्रतिनृपस्त्रिखण्डभरतक्षेत्रदिग्विजयं कृत्वा षोडशसहस्रमुकुटबद्धनृपपरिवृत उज्जयिन्यामागतः । पौरकृतप्रौढप्रवेशोत्सवः खधवलगृहे प्राप्तः स्वजननीकमलापादे पतितः । स्वमातरं श्यामाननां दृष्ट्वा मत्सदृक्षे पुत्रे मातस्त्वं कस्मान्न हर्षवती, पोट्टलिकपुत्रमाताऽपि उपार्जके पुत्रे प्रमोदाकुला स्यात् । ततस्तयोक्तम्-हे वत्स ! संसारसाधकनरकान्तराज्योपार्जनैर्मम हर्षो न भवति । यथा
शरीरं स्वरूपं तथा वा कलत्रं धनं मेरुतुल्यं वचश्चारु चित्रम् । जिनेन्द्रांड्रियुग्मे मनश्चेन्न दत्तं ततः किं ततः किं ततः किं ततः किम् ? ॥ १ ॥