________________
00000000
त्रिभुवनपालस्य नामाङ्कितः तिहुणविहारः कारितः ७२ देवकुलिकायुतः तासु २४ प्रतिमा रत्नमय्यः २४ पित्तलमय्यः २४ रूप्यमय्यः १४ भारमय्यः मुख्यप्रासादे १ शत २५ अङ्गुलप्रमाणारिष्टरत्नमयी नेमिनाथप्रतिमा कारिता; तत्र द्रव्यव्ययः ९६ कोटीप्रमाणः । तस्मिन् विहारे प्रत्यहं १८ सहस्र : छाडाकुबेरदत्त मं० आभड प्र॰ उदयनआम्बडदेबाहडदेप्रमुखकोटीध्वजव्यवहारिभिः सार्द्ध गीतनृत्यवादित्रपूर्वकः स्नात्रोत्सवं अग्निधौतगजवडिचीनांशुकप्रभृतिधौतपटादिशृङ्गारः श्रीकुमारपालनृपः करोति स्म । स्वकारितापर ३२ दन्तविहारेषु चैत्यपरिपाटीमहाध्वजमहापूजादिविस्तारपूर्व एवं अपरराणकैः ७२ अर्णोराजमांगूझालादिभिः ॥ इति तृतीयोपदेशः ॥
पुनः प्रकारान्तरेण यथा—
श्रीमज्जैनगृहे जिनप्रतिकृतौ जैनप्रतिष्ठाविधौ श्रीजैनस्नपने जिनार्चनविधौ श्रीसङ्घपूजादिके । श्रीजैनागमलेखने च सततं श्रीतीर्थयात्रादिके येषां स्वं विनियोगमेति धनिनां धन्यास्त एव क्षितौ ॥ १ ॥ जगति धन्यास्त एव येषां धनं जिनप्रासादादिपुण्यकरणीयेषु लगति । यदुक्तम् — ज्वलनजलचौरचारणनृपखलदायादबन्दिकोद्वृत्तम् । धन्योऽसौ यस्य धनं जिनभवनादौ शुभे लग्नम् ॥२॥ विशिष्य च प्रासादपुण्यमपारमाहुर्महर्षयः । यदुक्तम्
(१०५)