SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000000000000000000000000000000000. अनेन श्लोकेन श्रीगुरुमुखात् श्रुतेन श्रीमहावीरप्रासादः कारित एकोत्तरशतहस्तोचः साईतृतीयकोटिसुवर्णटङ्ककरसन्निष्पन्नश्रीवीरस्वर्णमयप्रतिमाऽलङ्कृतः तद्रगमण्डपे २१ सुवर्णलक्षा लग्नाः मूलमण्डपे तु पञ्चविंशतिसहस्राधिकः सुवर्णलक्षः संवत् ८११ वर्षे एककोटिसुवर्णव्ययेन श्रीवप्पभट्टिसूरीणां सूरिपदं कारितं, तदुपदेशेन श्रीशत्रुञ्जयरैवताचलयात्रोद्धारादि । यतः ___ संपइविक्कमबाहडहालपलित्ताऽऽमदत्तरायाई । जं उद्धरिस्संति तहा सिरिसित्तुंजयमहातित्थं ॥ ३ ॥ विस्तारः २४ प्रबन्धेभ्यो ज्ञेयः ॥ इति प्रासादकारापकोपदेशो द्वितीयः ॥ । ये कारयन्ति जिनमन्दिरमादरेण बिम्बानि तत्र विविधानि विधापयन्ति । संपूजयन्ति विधिना सततं जयन्ति ते पुण्यभाजनजना जनितप्रमोदाः ॥ १॥ ये प्रधानपुरुषा आदरेण द्रविणव्ययेन नारानयनसुधाकुट्टनलेपनादिना स्वशरीरेण जिनमन्दिराण्युत्तुङ्गतोरणानि सुवर्णमयादिबिम्बालङ्कृतानि कारयन्ति कुर्वन्ति च जगति त एव जयन्ति नास्तं गच्छन्ति । को भावः-तीर्थकरगणधरपदवीं भुक्त्वा मुक्तिनगरीमनन्तकालं भुञ्जते । दृष्टान्तो यथा-हेमाचार्यप्रतिबोधितश्रीकुमारपालभूपालेन तारणदुर्गस्तम्भपुरादिषु १४४४ नवीनाः सुवर्णदण्डकलशकलिताः प्रासादाः कारिताः । पत्तने स्वपितृ (१०४) ०००००००००००००००००००००००००००००0000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy