________________
भज, शान्ता भव । सा आह-बहुलकर्माहं जीववधं त्यक्तुं न शक्नोमि। तर्हि मन्त्रिनाहडगृहं त्यज। तया तथाकृतम्। मत्रिणा दृढधर्मरङ्गेण ७२ जैनविहारा नाहडवसहीप्रमुखाः कारिताः कोरण्टादिषु प्रतिष्ठिताः, श्रीदेवसू
रिभिः सं० १२५२ वर्षे मन्त्रिणा यावज्जीवं जिनपूजनाद्यभिग्रहो गृहीतः भोजनस्य प्राक् ॥ इति प्रथमः A8 प्रासादोपदेशः ॥ प्रकारान्तरेण यथा
रम्यं येन जिनालयं निजभुजोपात्तेन कारापितं
मोक्षार्थ स्वधनेन शुद्धमनसा पुंसा सदाचारिणा । वेद्यं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं
__ प्राप्तं जन्मफलं कृतं जिनमतं गोत्रं समुद्द्योतितम् ॥ १॥ स्वगृहाणि तु सूघरीऊर्णनाभकाकचटकादयोऽपि सर्वशक्त्याऽपवरकरचनया कुर्वन्ति, एवं नृपादिलोकाश्च; | परं भाग्यवान् स एव यः श्रीजिनप्रासादं स्वधनानुमानेनैकमण्डपाद्यष्टोत्तरसहस्रमण्डपमण्डितं कारयति । दृष्टान्तो यथा-श्रीआमराजेन गोपालगिरौ ।
श्रीरियं पुरुषान् प्रायः कुरुते निजकिङ्करान् । कुर्वते किङ्करी तां ये तैरसौ रत्नसू रसा ॥ २ ॥
ooooooooooooooooooooooooooooooooooooooooooooooooooom
000000000000000०००००००००००००००००००००००००००००००००