________________
00000000000०००००००००००००0000000000000orne
त्रिभुवनपालस्य नामाङ्कितः तिहुणविहारः कारितः ७२ देवकुलिकायुतः तासु २४ प्रतिमा रत्नमय्यः २४ पित्तलमय्यः २४ रूप्यमय्यः १४ भारमय्यः मुख्यप्रासादे १ शत २५ अङ्गुलप्रमाणारिष्टरत्नमयी नेमिनाथप्रतिमा कारिता; तत्र द्रव्यव्ययः ९६ कोटीप्रमाणः । तस्मिन् विहारे प्रत्यहं १८ सहस्र श्रे? छाडाकुबेरदत्त मं० आभड प्र. उदयनआम्बडदेबाहडदेप्रमुखकोटीध्वजव्यवहारिभिः साई गीतनृत्यवादित्रपूर्वकः स्नात्रोत्सवं अग्निधौतगजवडिचीनांशुकप्रभृतिधौतपटादिशृङ्गारः श्रीकुमारपालनृपः करोति स्म । स्वकारितापर ३२ दन्तविहारेषु चैत्यपरिपाटीमहाध्वजमहापूजादिविस्तारपूर्व एवं अपरराणकैः ७२ अर्णोराजमांगूझालादिभिः ॥ इति तृतीयोपदेशः॥
पुनः प्रकारान्तरेण यथाश्रीमज्जैनगृहे जिनप्रतिकृतौ जैनप्रतिष्ठाविधौ श्रीजैनस्नपने जिनार्चनविधौ श्रीसङ्घपूजादिके । श्रीजैनागमलेखने च सततं श्रीतीर्थयात्रादिके येषां खं विनियोगमेति धनिनां धन्यास्त एव क्षितौ ॥ १॥
जगति धन्यास्त एव येषां धनं जिनप्रासादादिपुण्यकरणीयेषु लगति । यदुक्तम्ज्वलनजलचौरचारणनृपखलदायादबन्दिकोवृत्तम् । धन्योऽसौ यस्य धनं जिनभवनादौ शुभे लग्नम् ॥२॥
विशिष्य च प्रासादपुण्यमपारमाहुमहर्षयः । यदुक्तम्
-0000000000000०००००००००००००००००००००००००००००