________________
अनेन श्लोकेन श्रीगुरुमुखात् श्रुतेन श्रीमहावीरप्रासादः कारित एकोत्तरशतहस्तोच्चः साईतृतीयकोटिसुवर्णटङ्ककरसन्निष्पन्नश्रीवीरस्वर्णमयप्रतिमाऽलङ्कृतः तद्रङ्गमण्डपे २१ सुवर्णलक्षा लग्नाः मूलमण्डपे तु पञ्चविंशतिसहस्राधिकः सुवर्णलक्षः संवत् ८११ वर्षे एककोटिसुवर्णव्ययेन श्रीबप्पभट्टिसूरीणां सूरिपदं कारितं, , तदुपदेशेन श्रीशत्रुञ्जयरैवताचलयात्रोद्धारादि । यतः
__ संपइविक्कमबाहडहालपलित्ताऽऽमदत्तरायाई । जं उद्धरिस्संति तहा सिरिसित्तुंजयमहातित्थं ॥ ३ ॥ विस्तारः २४ प्रबन्धेभ्यो ज्ञेयः ॥ इति प्रासादकारापकोपदेशो द्वितीयः॥
ये कारयन्ति जिनमन्दिरमादरेण बिम्बानि तत्र विविधानि विधापयन्ति ।
संपूजयन्ति विधिना सततं जयन्ति ते पुण्यभाजनजना जनितप्रमोदाः ॥ १॥ ये प्रधानपुरुषा आदरेण द्रविणव्ययेन नारानयनसुधाकुट्टनलेपनादिना स्वशरीरेण जिनमन्दिराण्युत्तुङ्गतोरणानि सवर्णमयादिबिम्बालङ्कृतानि कारयन्ति कुर्वन्ति च जगति त एव जयन्ति नास्तं गच्छन्ति । को भावः-तीर्थकरगणधरपदवीं भुक्त्वा मुक्तिनगरीमनन्तकालं भुञ्जते । दृष्टान्तो यथा-हेमाचार्यप्रतिबोधितश्रीकुमारपालभूपालेन तारणदुर्गस्तम्भपुरादिपु १४४४ नवीनाः सुवर्णदण्डकलशकलिताः प्रासादाः कारिताः । पत्तने स्वपितृ
०००००००००००००००००००००००
000000000