________________
1000000000000000000000000000000000000000000000000000
दृष्टान्तो यथा--पेथडदेसाधुना ६८ वर्णवर्तुलिका मुक्ताप्रवालभृता ६८ सर्वफलसर्वहाटकादिनाणकपुञ्जक ६८ सर्वजातिपक्वान्नसुखभक्षिका ६८ दुकूलचीरादिमहाध्वजादिविस्तरसुभगं श्रीनमस्कारफलोद्यापनं कृतं सकललोकविस्मयावहम् । एवमपरैरपि स्वसंपत्त्यनुमानतस्तपउद्यापनविधौ यतनीयम् ।
॥ इत्युद्यापनोपदेशः॥
अथ भावनोपदेशः। - ज्ञेयान्यङ्गानि दानादीन्येव धर्मनरेशितुः । तस्य तेप्वधुना जीवो भावना सा निगद्यते ॥१॥
दानं तपस्तथा शीलं नृणां भावेन वर्जितम् । अर्थहानिः क्षुधा पीडा कायक्लेशश्च केवलम् ॥२॥ चिरादेकेन दानादिक्लेशैः पुण्यं यदार्जितम् । तस्यानुमोदनाभावात् क्षणादन्यस्तदर्जयेत् ॥ ३॥ भावना भरतेश्वरवह्नव्यभोगयोगेऽपि मुक्तिदा, मरुदेवा स्वामिनी भाववशान्मुक्तिं गता कदाऽप्यकृतैकाशनाऽपि । प्रसन्नचन्द्रोऽपि सद्भावात्केवलं प्राप। वीरजिणकहियसत्तमपुढवीसव्वट्ठसिद्धिकयजोगो । नंदउ पसन्नचन्दो तत्कालं केवलं पत्तो ॥४॥
(९९)
100000000000000000000000000000000000000000000000000
-