SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ___ कषायदेहकारायां चत्वारो यामिका इव । यावत् जाग्रति पार्श्वस्थास्तावन्मोक्षः कुतो नृणाम् ? ॥७॥ | नाऽऽशाऽम्बरत्वे न सिताम्बरत्वे न तत्त्ववादे न च तर्कवादे। न पक्षसेवाश्रयणेन मुक्तिः कषायमुक्तिः किल मुक्तिरेव॥८॥ हूँ दृष्टान्तः कूरगडूकमुनेः ॥ इति तपउपदेशः ॥ अथ तपउद्यापनोपदेशः। प्रासादे कलशाधिरोपणसमं बिम्बे प्रतिष्ठोपमं पुण्यश्रीरफुटसंविभागकरणं विभ्रद्विशिष्टे जने । सौभाग्योपरिमञ्जरीप्रतिनिभं पूर्णे तपस्याविधौ यः शक्त्योद्यमनं करोति विधिना सम्यग्दृशां सोऽग्रणीः ॥१॥ शुद्धं तपः केवलमप्युदारं सोद्यापनस्यास्य पुनः स्तुमः किम् । हृद्यं पयो धेनुगुणेन तत्तु द्राक्षासिताचूर्णयुतं सुधेव॥२॥ सिंहस्तपःप्रक्रम एव तावद् दुष्कर्मदन्ताबलमण्डलीनाम्। तदद्य तस्मिन् प्रखरा निवेशा यद्यद्यदुधापनविस्तरोऽयम्॥३॥ वृक्षो यथा दोहदपूरणेन कायो यथा सद्रसभोजनेन । विशेषशोभा लभते यथोक्तेनोद्यापनेनैव तथा तपोऽपि ॥४॥ लक्ष्मीः कृतार्था सफलं तपोऽपि ध्यानं सदोच्चैर्जिनबोधिलाभः।। जिनस्य भक्तिर्जिनशासनश्रीर्गुणाः स्युरुद्यापनतो नराणाम् ॥ ५॥ (९८) 0000000000000०००००००००००000000000000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy