SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 500000000000000000000 जीवः कनकवत् पूर्वदुष्कर्ममृद्मध्यस्थोऽपि तपःकृशानुना केवलज्ञानकान्तिदीप्रः स्यात् |यतःजन्मकोटिकृतमेकहेलया कर्म तीव्रतपसा विलीयते । किं न दाह्यमतिबपि क्षणादुच्छिखेन शिखिनाऽत्र दह्यते ॥१२॥ अत्रोदाहरणानि । यथाश्रीमद्दीरजिनो दृढप्रहरणः स्वीयप्रतिज्ञादृढः श्लाघ्यो बाहुबली बलोऽप्यविचलः सन्नन्दिषेणो व्रती। आनन्दः सदुपासको व्रतरुचिः सा सुन्दरीत्यादयः । कर्मोन्मूलनकोविदेन तपसा देवासुरैर्वन्दिताः ॥ १३ ॥ किं आसि नंदिसेणस्स कुलं जं हरिकुलस्स विउलस्स । आसी पिआमहो सुचरिएण वसुदेवनामुत्ति ॥ १४ ॥ विज्जाहरीहिं सहरिसं नरिंददुहिआहिं अहमहंतीहिं । जं पत्थिज्जइ तइआ वसुदेवो तं तवस्स फलं ॥ १५ ॥ सुन्दरी श्रीआदीश्वरपुत्री बाहुबलिसहोदरी, तहत्तपः कार्यम् । यथासहि वाससहस्सा अविलंबं अंबिलाई विहिआई । जाए निक्खमणकए सा सुन्दरिसाविआ धन्ना ॥ १६ ॥ अत्र तपःकुलं सकलं वाच्यम् ॥ इति द्वितीयस्तपउपदेशः ॥ यत्कुष्ठादिगरिष्ठरोगविरतिनिष्ठीवनालेपनाद् मूत्रस्पर्शवशेन काञ्चनकला यल्लोहधातुष्वपि । रत्नानां करपल्लवप्रणयतो यच्चाक्षयत्वोन्नतिस्तद्विश्वत्रयवन्द्यमद्भुतगुणं जीयात्तपःस्फूर्जितम् ॥ १७ ॥ है 0000000000000000000000000000000000000000000००००००० 000000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy