________________
000000000०००००००००००००००००००००००००००००००००००००००००००००
तपसा कुष्ठादिरोगाणां क्षयः स्यात् । तद्यथा
छज्जइ सणंकुमारो तवबलखेलाइलद्धिसंपन्नो । निडूअखरडिअंगुलिसुवन्नसोहं पयासंतो ॥ १८ ॥ तपस्विसत्ककल्पादिप्रावरणतः कलावप्येकान्तरवेलातृतीयज्वराः क्षयं गच्छन्तो दृश्यन्ते । श्रूयन्ते च यथा-- गोपगिरौ श्रीआमनरेश्वरस्यैकान्तरः शीतज्वरः, कलाकुशलमान्त्रिकशतकृतोपकाराजातोपशमः श्रीबप्पभट्टिसूरिकल्पप्रावरणात्तत्क्षणात् क्षयं गतः। तपखिमूत्रेणापि लोहधातुपाषाणाः स्वर्णीभवन्ति । श्रीपादलिप्त सूरीणां स्वगुरुभक्त्या नागार्जुनयोगिना कोटीवेधो दुष्पापः सिद्धरसः स्वक्षुल्लराउललाखणसिंहहस्तेन खपरेण प्राभृतीकृतः गुरुभिः पृथिव्यां परिष्ठापितः स्वमूत्रेण खर्परं भृत्वा पश्चात्प्रहितः, समर्पितं नागार्जुनस्य, गुरुकृतरसपरिष्ठापनादिव्यतिकरं श्रुत्वा रुष्टो नागार्जुनः, लोहधातुशिलायां खर्परं भग्नं नागार्जुनेन; ततो यासु २ शिलासु मूत्रबिन्दवो लग्नास्ताः सर्वाः काञ्चनीभूताः । विस्मितो योगी गुरूणां पादे लग्नः, महती तपःशक्तिर्यन्मूत्रेणाऽपि सुवर्णसिद्धिः । तपखिकरस्पर्शन सर्व वस्तु क्षयभाक् न स्यात् । यथा-श्रीगौतमकरस्पर्शतः क्षैरेयीभृतपांत्रेण त्रिभिरधिकपंचदशशतक्षुधार्त्ततापसानां पारणम् ॥ तस्मात्तपः कार्यम् ।
॥ इति तृतीयोपदेशः ॥