________________
श्रीसूत्रक्रताङ्गचूर्णिः
।। ५९ ।।
पठ्यते चान्यथा सद्भिः अणुकोसे अणुवलीणे, तत्राणुकोसो णाम न जात्यादिभिर्मदस्थानैरुत्कर्षं गच्छति, अपलीयते स्म अपलीनः यो हि जात्यादिरहितः पूर्व्वमासीत् स नापलीयेत, न गृहयेदात्मानमित्यर्थः, तत आत्मोत्कर्षत्वापलीनत्वे वर्जयित्वा मज्झिमेण मुणि जावए, ण - नोत्कृष्येत् लज्येत इत्यर्थः, अथवा रागद्वेपौ हित्वा तयोर्मध्येन मुनिर्यापयेत्, अरक्तदुष्ट इत्यर्थः, अथवा मध्यमिति 'सपरिग्गहा य सारंभा य० ' सिलोगो ॥ ७८ ॥ परिग्रहारंभावुक्तौ प्रथमोद्देश के, 'इहे 'ति इहलोके, एके न सर्वे, आहितं - आख्यातं यदेषामारंभपरिग्रहौ व्याख्यातौ निर्वाणाय अतत्वं साधवस्तद्विपरीतास्तन्मध्ये अपरिग्रहे अणारंभे ज्ञानवान् ज्ञानी भिक्षुः पूर्वोक्तः समंताद् व्रजेत् परिव्रजेत् स्यादेतत्- अनारंभापरिग्रहवतो अपरिचयस्य च भिक्षोः कथं शरीरयापनाप्रक्रिया स्यादिति १, नैवाशरीरो धम्मो भवति, ततः उच्यते- 'कडेसु घास मेसेज्जा ० ' सिलोगो ॥ ७९ ॥ अथवा जावएत्ति वृत्तं सा चेयं यापना- कडेसु घासमेसेजा, तैरेवारंभपरिग्रहवद्भिः पचमानकैः अर्थाय कृतेषु प्रासुकीकृतेष्वित्यर्थः, ग्रस्यत इति । ग्रासः तेषु कृतवत्सु स भिक्षुर्याचेत, यदुक्तमेषणीयं चरेत्, चर गतिभक्षणयोः, भुंजीतेत्यर्थः, एवमाहारउवधिसेज्जाओवि, तदपि भुंजानाः अगिद्धे विप्पमुक्के य, अगिद्धो अरक्त इत्यर्थः, बायाली सदोसविप्यमुकं, एसणं चरेदिति गवेसणा गहणेसणा य गहिताओ, अगिद्धेति घासेसणा, विष्पमुवेत्ति न तेष्वाहारादिषु ममीकारः कर्त्तव्यः, यत्र वा इष्टो आहारो लभ्यते तत्रापि कुले ग्रामे वा न संग: कार्य इत्यतो विष्पमुको य, 'उम्माणं परिवजिए'त्ति सपक्खपरपक्ख उम्माणपेल्लियं च खेत्तं वज्जेतव्यं मा भूत् एवं दोषाः स्युरिति, उबहिसेजाहिवि जोइजा आदिग्गहणा, किच्चुवमाहिकारो गतो, समयाधिकारोऽनुवर्त्तत एव, लोकस्य च - पाखण्डलोकस्य च तदधिकारेऽनुवर्त्तमाने इदमपदिश्यते लोगावायं णिसामेज ० ' सिलोगो ॥ ८० ॥ लोका नाम पापंडा गृहिणश्च, लोकस्य
कृत्योपगत्वं
॥ ५९ ॥