________________
मंगलचर्चाः
सूत्रक“चूर्णिः
२॥
शास्त्रमेव मङ्गलं? यन्मङ्गलमुपादीयते किमत्रामङ्गलंका वाऽनवस्थेति ?, नायमसत्पक्षः,किन्तु यस्यापि शास्त्रादर्थान्तरभृतं तस्यापि नामंगलप्रसंगो न वाऽनवस्था, कुतः, स्वपरानुग्रहकारित्वान्मङ्गलस्य प्रदीपवत् लवणादिवद्वा, आह-मङ्गलत्रयान्तरालयं न मङ्गलमापद्यतेऽर्थापत्तितः, यदिवेह सर्वमेव शास्त्रं मालमिति प्रतिपद्यते मङ्गलबयग्रहणमनर्थक, उच्यते, समस्तमेव शास्त्रं त्रिधा विभज्यते, कुतोऽन्तरालद्वयपरिकल्पनं यदमङ्गलं भवेत् ?, कथं पुनः सर्वमेव शास्त्रं मङ्गलमिति चेत् ?, उच्यते, निर्जरार्थत्वात् तपोवत् , आह-यदि स्वयमेव शास्त्रं मङ्गलमित्यतः किमिह मङ्गलग्रहणं क्रियते ?, उच्यते. ननूक्तं नैवेह शास्त्रादर्थान्तरभूतं मङ्गलमुपादीयते, किन्तु मङ्गलमिदं शास्त्रमिति केवलमुच्चार्यते, आह-तदुचारणं किंफलं?, यदि मङ्गलमिति न संबध्यते किं तद् ?. मङ्गलं भवति, शिष्यमतिमङ्गलपरिग्रहार्थं तदभिधानं, इह शिष्यः कशं शास्त्रं मालमित्येव मंगलबुद्धया परिगृहीयादिति, यमादिह मङ्गलमपि मङ्गलबुद्ध्या परिगृह्यमाणं मङ्गलं भवति, साधुवत् , आह-ततः सर्वमेवेदं मङ्गलमित्येतावदस्तु नार्थो मङ्गलत्रयबुद्धिग्रहण, उच्यते, ननु तत्रापि कारणमुक्तं-यथव हि शास्त्रं मङ्गलमपि सत् न मङ्गलबुद्धिपरिग्रहमन्तरेण मङ्गलं भवति साधुवत् , तथा मङ्गलत्रयकारणमपि अविघ्नपारगमनादि न मङ्गलत्रयबुद्ध्या विना सिध्यतीत्यतस्तदभिधानमिति, मगेर्गत्यर्थस्य अलप्रत्ययान्तस्य मङ्गलमिति रूपं भवति, मंग्यतेऽनेन हितमिति मङ्गलं, मंग्यते साध्यत इतियावत , अथवा मंगो-धर्मः, 'ला आदाने' मङ्गं लातीति मङ्गलं, धर्मोपादाने हेतुरित्यर्थः, अथवा निपातनादिष्टार्थप्रकृतिप्रत्ययोपादान्मङ्गलं, इष्टार्थाश्च प्रकृतयः-मकि मण्डने, मन ज्ञाने, मदी हर्षे, मदि मोदस्वमगतिघु, मह पूजायामित्येवमादीनामलप्रत्ययान्तानां मङ्गलमेनन्निपात्यते, मंक्यते अनेन मन्यते वाऽनेनेति मङ्गलमित्यादि लक्षणशास्त्रीययाऽनुवृत्त्या योजनीयमिति, अथवा मंगालयति भवादिति मङ्गलं, संमारादपनयतीत्यर्थः, अथवा
aning SHRINA RIDDITIHAAlimit -AIRMIRISHIPHATAltanniPRIL
RamaithiReminion RTIHARRARIA
॥२
॥