________________
स्थाद्वादादि
श्रीसूत्रकृ
शाश्वताशाश्वतग्राहावेकान्तेन न व्यवहारमवतरत इत्यतः 'एतेहिं दोहि ठाणेहि अणाचारं विजाणएहि सम्यग्दर्शन विराधनेत्यर्थः, तागचूणिः
तदभावे प्रागेव ज्ञानचारित्रयोरप्यभावः स्यात् , कशं प्रतिपत्तव्यं कथं वा व्यवहारो भवति ?, उच्यते-सदसत्कार्यत्वात् तत्प्रति॥४०४॥
पेधः अंगुलीयकदृष्टान्तः, यथा सुवर्ण सुवर्णत्वेनावस्थितमेव कारणान्तरतः अंगुलीयकत्वेनोत्पद्यते, तद्विनाशे च सुवर्णस्यानिवृत्तिः, अस्त्वेवं जीवो जीवत्वेनावस्थित एव नामकर्मप्रत्ययान्नरकादिभावनोत्पद्यते नारकादिविगमाच मनुष्यत्वेनोत्पद्यते, जीवद्रव्यं तु नारककाले मनुष्यकाले चावस्थितं, घटपटादिष्वप्यायोज्यं, स्याद्-आकाशादिषूत्पाद विगमौ न विद्यते, तत्राप्युत्तरं आकाशादी तिण्हं परपच्चयतो, अत्राह-ननु शाक्यदृष्टिरेव उच्यते, तेषां हि पुद्गलो नित्यानित्यत्वं प्रत्यवचनीयः, अस्माकं तु नित्यानित्याः सर्वभावा इति वाच्यमेतत्-उत्पाद्यविगमध्रौव्यपर्यायत्रयसंगहं । कृत्स्न श्रीवर्द्धमानस्य शासनं (शासनं भुवि) ॥१॥ एवं सर्वभावानां मन्यमानाः उच्यमाना व्यवहारमवतरति, व्यवहारादपेतं च मन्यमानमुच्यमानं वा न आचारं विजा, अयमन्यो दर्शनाचारः, 'वोच्छिजिस्संति सत्थारो' यस्य किलापवर्गोऽस्ति न चास्ति नवमच्चोत्पादः, तस्यानन्तत्वात्कालस्य सत्यारोवि ताव वोच्छि
जिस्संति तीर्थकरा इत्यर्थः, किमंग पुण जे अण्णम य परिवारो. मोक्खं गछंति, आह हि-"त्वदेशनामतीतः कालः किमहं । त्वनन्ततद्विगुणं" ननूक्तं 'देविंदचक्कबट्टित्तणाई०' गाथा, असदृशा-अक्षीणक्लेशपृथग्जनेन गठिया भविस्संति, ग्रंथिं न सक्ता
भेत्तुं गठियसचा इति वाक्याव्यवहारः, स्याद्-ब्रवीति-भव्येपु सिद्धेपु अभव्याः स्थास्यन्ति, यतः संमार परिहास्यति. तथापि न मोक्षाभाव इति न दोपः, अवश्यं च संसारमोक्षाविति द्वन्द्वसिद्ध्या भवितव्यं, सुखदुःखवत् सीतोष्णवद्वेत्यादि, अथ मा भृन्संसार इति तेन अपवर्ग एव नास्तीति मन्तव्यं वक्तव्यं वा, तथाऽनादि सामयंति णो वदेजा, मा भूत्संसाराभाव इति दोपः, अथवा
॥४०४॥