________________
अशाश्वतस्वादि
श्रीसूत्रकताङ्गचूर्णिः ॥२११॥
| किं? सह कडेवर०, एवमनित्याद्याः, अशुभा अपि, द्वादश भावना गृहीता, तत्रानित्यभावना 'ठाणी विविधठाणाणि' सिलोगो ॥ ४२२ ॥ स्थानान्येषां सन्तीति स्थानिनः, देवलोके तावदिन्द्रसामानिकत्रायस्त्रिंशाद्याः, मनुष्येष्वपि चक्रवर्तिवलदेववासुदेवमण्डलिकमहामण्डलिकादि, तिर्यक्त्वेऽपि यानीप्यानिष्टानि, विविधानीति उत्तममध्यमांधमानि, तेभ्यः स्थानेभ्यः सर्वस्थानिनः चइस्संति, नात्र संशयः उक्तं हि-'अशाश्वतानि स्थानानि, सर्वाणि दिवि चेह च । देवासुरमनुष्याणां, ऋद्धयश्च सुखानि च ॥१॥'किंच'अणितिए इमे वासे' जीवतोजपि हि अनित्यः संवासो भवति, कैः?-ज्ञातिभिः, ज्ञातयो नाम मातापितसंबंधाः, सुहृदः शेपा मित्रादयः, 'एवमादाय मेधावी' सिलोगो ॥४२३॥ एवमवधारणे, आदाएति एवं बुद्ध्या गृहीत्वा, यथा सर्वाणि अशाश्वतानि, पंडितगुणवीर्यगुणांश्च मोक्षे च शाश्वतं स्थानं आदाएत्ति, अथवा द्वादशसु भावनासु यदुक्तं तमादाय, उपधारयित्वेत्यर्थः, आत्मनैव आत्मनि गृद्धिमुद्धरेत् ममीकारमित्यर्थः, तं०-हत्था मे पादा मे जीविजामि, जेसुवा कलत्रस्वजनमित्रादिपु गृद्धिरुत्पद्यते तेभ्य आत्मनैव आत्मनि गृद्धिमुद्धरेत् , किश्च-गिद्धिमुद्धरेमाणो आयरियं उवसंपजेज, स्वाध्यायतपादी उत्तरोत्तरगुणानुपसंपद्यमानः चरित्तारियं मग्गं उवसंपन्जेज्जा, आयरियाण वा मग्गं उवसंपज्जेज, सर्वे धर्माः कुतीथिकानांण अकोविता, अकोविता नाम ण केहिंवि कोविज्जति, कोवितो णाम दृपितः, कूटकापणवत् , च्छेदो पुण ण कोविज्जइ, ते कथं उपसंपज्जइ ?, दोहि ठाणेहि, सहसमुतिआए णचा' सिलोगो ॥ ४२४ ॥ शोभना मतिः सन्मतिः सहजात्ममतिः सहसन्मतिः स्वा वा मतिः सन्मतिः, सह मतीए | सहस्संमतिगं प्रत्येकबुद्धानां निसर्गसम्यग्दर्शने वा, पित्तज्वरोपशमनदृष्टान्तसामर्थ्यात् आमिणिबोहियसुयं उग्घाडेति, जहा इलाइपुत्तेण, धम्मसारं सुणेत्तु वा, यथा तीर्थकरसकाशादन्यतो वा धर्म एव सारः धर्मसार:, धर्मस्य वा सारः धर्मसारः, चारित्रं
॥२११॥