________________
श्रीसूत्रकगचूर्णिः ||१८०॥
भगवद्गुणप्रश्नः
इत्यर्थः, अभय इति अभयं करोत्यन्येषां न च स्वयं बिभेति, अनायुरिति नोऽस्यागमिष्यं जन्म विद्यते आगमिष्यायुष्कबंधो या, 'से भूतिपण्णे अणिएतचारी' वृत्तं ।। ३५७ ॥ भूतिर्हि वृद्धौ मङ्गले रक्षायां च भवति, वृद्धौ तावत्प्रवृद्धप्रज्ञः अनन्तज्ञानवा| नित्यर्थः, रक्षायां रक्षाभूतस्य सर्वसत्चानां वा, मङ्गलेऽपि सर्वमंगलोत्तमोत्तमाऽस्य प्रज्ञा, अनियतं चरतीति अनियतचारी, ओघो द्रव्योषः समुद्रो भावौधः संसारः तं तरतीति ओघंतरः, धिया राजतीति धीरः, अणंतचक्षुरिति अणतं केवलदर्शनं तदस्य चक्षुर्भूतः, अणुत्तरं तवइति सूर एव, न हि सूर्यादन्यः कश्चित्प्रकाशाधिकः, एवं भट्टारकादपि नान्यः कश्चिद् ज्ञानाधिकः, णाणेण चेव ओभासति तवति भासेति, अथवा सेसं च कर्म तवति, आदित्य इव सरांसि तपति औषधयो वा, वैरोयणेदो वा रूवदित्तो विविधं || रुचतीति वैरुचनः अग्निः, स हि सर्वदीप्तिवतां द्रव्याणामिन्द्रभूत इत्यतो वेरोचवेंद्रः, स यथा आज्याभिक्तः सन् तमः प्रकाशयति एवं भगवानप्यज्ञानतमांसि प्रकाशयति । 'अणुत्तरं धम्ममिणं जिणाणं' वृत्तं ॥३५८॥ नास्योत्तरा अन्ये कुधर्मा इत्यनुत्तरं, जिनानामिति अन्येषामपि जिनानां अयमेव धर्मः अतीतानामागमिष्यतां च एप भगवतां धर्मः, अयमेव भगवान्नयतीति नेता, कोऽर्थः ?, जहा ते भगवन्तो नीतवन्तः तथा अयमपि नयति, काश्यपगोत्रः काश्यपमुनिः, केवलज्ञानित्वात् आसुप्रज्ञः आसुरेव प्रजानीते, न चिन्तयित्वेत्यर्थः, इंदेव देवाण महानुभागे इंदेण तुल्यं इंदवत् , अनुभवनमनुभावः, सौख्यं वीर्य माहात्म्यं चानुभावाः, सहस्रमस्य नेत्राणां सहस्सनेत्ता, अनेकानां वा सहस्राणां नेता नायक इत्यर्थः, दिवि भवा दिविनः सर्वेभ्यो दिविभ्यः स्थानरिद्धिस्थितिद्युतिकान्त्यादिभिर्विशिष्यते इति विशिष्टः, किमुतान्येभ्यः ?, किंच-'से पण्णसा(या)अक्खयसागरे वा' वृत्तं ॥३५९।। ज्ञायतेऽनेनेति प्रज्ञा ज्ञानसंपत् , न तस्य ज्ञातव्येऽत्यर्थे तुष्टिः परिक्षीयते प्रतिहन्यते वा सादी अपजवसितो कालतो,
॥१८॥