________________
श्रीसूत्रक्रताङ्गचूर्णि
॥ १७९ ॥
वा तं तुमं अवितहं जाणाहि, जाणमाणो कहेहित्ति णं वाक्यशेषः, स च कथयत्येवं 'उड्डे आहे वा तिरियं दिसासु' वृत्तं ||| ३५५ || येषामूर्ध्वलोके स्थानं यतः प्रभृति वोर्ध्वो भवति एवमधः तिर्यगिति चतस्रो दिशस्तासु, दीवसमुद्रा इति अस्मिन् त्रिलो केsपि ये स्थावराः त्रिप्रकारैर्ये च त्रसास्त्रिप्रकारा एव, से णिच्चणिचे य समिक्वपणे स इति भगवान्, नित्यानित्य इति भावा अपि हि केनचित् प्रकारेण नित्याः केनचिदनित्याः, कथमिति चेत् द्रव्यतो नित्या भावतोऽनित्याः, द्रव्यं प्रति नित्यानित्याः, एवमन्यान्यपि द्रव्याणि यथा नित्यान्यनित्यानि च तथा सम्यक् ईक्ष्य प्रज्ञया, तथा आहेति वक्ष्यमाणान्, दीवसमो दीवभूतः, दीपो दुविधो- आसासदीवो पगासदीवो य, उभयथापि जगतः आसासदीवो ताणं सरणं गतिप्रकाशकरो आदित्यः सव्वत्थ | सम्मं पगासयति चण्डालादिसुवि, एवं भगवान् दीवेण समो, समियाएति सम्यक्, ण पूयासकारगारवहेतुं, 'जहा पुण्णस्स कत्थति तहा तुच्छस्स कत्थति, 'से सव्वदंसी अभिभूयणाणी' वृत्तं ॥ ३५६ ॥ सव्वं पासतीति सव्वदंसी, केवलदर्शनीत्युक्तं भवति, चत्तारि ज्ञानानि त्रीणि दर्शनानि भास्कर इव सर्वतेजांस्यभिभूय केवलदर्शनेन जगत्प्रकाशयति ज्ञानीति, एवं केवलज्ञानेनापि अभिभूय इति वर्त्तते, उभाभ्यामपि कृत्स्नं लोकालोकमवभासते, अथवा लौकिकानि अज्ञानान्यभिभूय केवलज्ञानदर्शनाभ्यां खद्योतकानिवादित्यः एकः प्रकाशते 'णिरागमगंधे धितिमं ठितप्पा' निरामोऽसौ निर्गन्धव, आम इति उद्गमकोटिः, धृतिरस्यास्तीति संयमे धृतिः, संयम एव यस्य स्थित आत्मा, धर्मे वा सोधितव्याः 'अणुत्तरं सवजगंसि विज्जं' नास्योत्तरं सर्वलोके यः कश्विद्विद्वानित्यतः सर्वलोकं स विद्वान् विज्जं, न मायाविद्वान्, ग्रन्थादतीतेति गंथातीते, दव्यगंथो सचित्तादि भावे कोहादि, द्विधा अप्यतीतः निर्ग्रन्थ इत्यर्थः, अथवा ग्रन्थनं ग्रन्थः स्वाध्याय इत्यर्थः तमतीतः कोऽर्थः ? नासौ श्रुतज्ञानेन जानीत
भगवद्गुणाः
॥ १७९ ॥