________________
गाहनी कपिलस्यादुिखस्य कारणम् ।
राज्ञामवमस्ति राजन् !
ततः कुरुष्व कारुण्यं ममाऽप्युपरि भूपते ! । प्रत्यूचे पार्थिवस्तां हि किं ते दुःखस्य कारणम् ॥४९॥ पूज्यस्तावदुपाध्यायस्तस्य त्वमसि नन्दिनी । गेहिनी कपिलस्यापि मान्यस्त्वरिपतुरेव यः ॥५०॥ उवाच सत्यभामैवमस्ति राजन् ! परं मम | भर्त्ता यः कपिलो नाम सोऽकुलीनत्वदूषितः ॥५१॥ राज्ञाऽथ कथमित्युक्ता-राज्ञोऽग्रे साऽपि सूनृताम् । तत्कथां कथयामास भूयश्चैवमभाषत ॥५२॥ अमुष्य गृहवासेन पर्याप्त मम सर्वथा । तथा कुरु महीनाथ ! यथा शीलं चराम्यहम् ॥५३॥ आकार्य भूभुजाभाणि साञ्जसं कपिलोऽथ सः । विरक्ता गृहवासस्य भद्रेयं त्वत्प्रियेत्यलम् ॥५४॥ तदिमां विगतस्नेहां मुश्च त्वं स्वपरिग्रहात् । यथाऽसौ पितृगेहस्था कुर्याद्धर्म कुलोचितम् ॥५५॥ कपिलोऽप्यनवोद्देव ! क्षणमप्यनया विना । न स्थातुमहमीशोऽस्मि तदियं मुच्यते कथम् १ ॥५६॥
राज्ञा तु सत्यभामा सा पुनः पृष्टाऽब्रवीदिति । नैतस्माद्यदि मेमोक्षस्तन्मरिष्यामि निश्चितम् ॥ ५७ ।। 1. राज्ञोचे कपिलो भूयो हो धृत्वा बलादमूम् । स्त्रीहत्यां किं करोषि त्वं कि विभेषि न पाप्मनः॥ ५८॥
अस्मद्राज्ञीसमीपस्था तिष्ठत्वेषा यथासुखम् । दिनानि कत्यपीत्युक्तो मेनेऽसौ कपिलोऽपि तत् ॥ ५९॥ सत्यभामा विनीता सा कुर्वाणा शीलरक्षणम् । राजराज्ञीसमीपस्था गमयामास वासरानू ॥६ ॥ सूरिविमलवोधाख्यो विहरनवनीतले । तत्रागत्य पुरेऽन्येद्यस्तस्थौ स्थाने यथोचिते ॥६१॥ १ पापात्.