SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ स एवं चिन्तयामास याक् पित्रा ममोदितः। ताडगेव जनः सर्वः स्थानीयोन प्रवर्तते ॥ १४२४॥ एतेषां हन्त कार्याणां निर्वाहो भविता कथम् । अथवा याम्यहं तावद्गणिकाया निकेतनम् ॥ १४२५॥ यत्सानेकमनुष्याणां चित्तरञ्जनकर्मठा । जानाति विविधोपायान बुद्धिदात्री ममाऽप्यतः ॥१४२६ ॥ अथ तत्र गतस्याऽस्याऽभ्युत्थानं विदधे तया । तेनापि दत्तमेतस्यै तद्वित्तं कितवार्पितम् ॥ १४२७॥ अभ्यङ्गोद्वर्तनस्नानभोजनानि सगौरवम् । कारितानि तया तस्य सन्ध्याकालस्ततोऽभवत् ॥ १४२८॥ स तस्या वासगेहेऽथ शयनीये मनोहरे । निषसाद पुरः सास्य स्फारशृङ्गारशोभिता ॥१४२९ ॥ यावत् प्रकर्तुमारेमे सा गोष्ठी वैदुषाश्चिता । तावदाख्याय वार्ता स्वामित्यूचे श्रेष्ठिखनुना॥ १४३०॥ अयि त्वमत्र वास्तव्या वेत्सि स्वपुरचेष्टितम् । किमेतेषां विवादानां वद कार्य मयोत्तरम् ॥१४३१ ॥ अस्मिनिर्वाहिते कार्ये रडावात त्वया सह । अहं सुभ्र करिष्यामि सचिन्तोऽस्म्यधुना पुनः॥१४३२॥ प्रत्यूचे धीमती सा तं शृणु सुन्दर! कारणम् । देवादिह समायाति यः कश्चिद्व्यवहारिकः॥ १४३३ ॥ स एतैगृह्यते सर्वैः सर्वस्वं वचनापरैः । उपात्तविभवस्यांशो दीयते तु महीपतेः ॥१४३४॥ सचिवस्य द्वितीयोऽशस्तृतीयः श्रेष्ठिनस्तथा । आरक्षकस्य तुर्यांशः पञ्चमस्तु पुरोधसः ॥१४३५॥ मन्मातुर्यमघण्टायाः षष्ठोंऽशस्तत्र दीयते । सर्वोऽपि करणाचारस्तदने क्रियते परम् ॥१४३६ ।। १ न्यायः।
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy