SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ पष्टः शान्तिनामचरित्रम् । ॥ १७९॥ प्रस्वानः * * * SEEXXXXXXXXXXXX तथाऽप्युपस्थितं वित्तं स्वायत्तं प्रकरोम्यहम् । पश्चादत्रोचरं किश्चिद्ययुक्तं तत्करिष्यते ॥१४१३॥ एवं विचिन्त्य तदत्तं गृहीत्वा तमभाषत । आगन्तव्यं त्वयाऽऽचासे समेतस्य ममाऽन्तिकम् ॥ १४१४॥ ततश्च पुरतो यान्तं तं दृष्ट्वा श्रेष्ठिनन्दनम् । जजल्पुरेवमन्योऽन्यं चत्वारो व्यंसको नराः ॥ १४१५॥ तत्रैकःस्माहनीरमानं समुद्रस्य गङ्गायाः सिकतामितिम् । बुद्धिमन्तो विजानन्ति न स्त्रियो हृदयं पुनः ॥ १४१६॥ द्वितीयोऽवोचदत्युक्तिः केनाऽप्येषा प्रजल्पिता। यथा स्त्रीहृदयं तद्ववयं वेत्ति न कोऽप्यदः॥१४१७॥ तृतीयः साह नाऽसत्यं पूर्वसरिसुभाषितम् । परं शुक्रगुरुप्रख्यैः कैश्चिद्विज्ञायतेऽप्यदः ॥१४१८॥ अथ प्रोक्तं चतुर्थेन ताम्रलिप्त्याः समागतः । बालोऽप्येष विजानाति सर्वमेतच्छ्रभाकृतिः ॥ १४१९ ॥ ततथाऽन्योऽवदहरे वर्तते सा सुरापगा। त्वं रत्नाकरनीरस्य मानमेनं हि कारय ॥१४२०॥ एवं कृत्वा हठाद्वादं तेन प्रोत्साहितस्तथा । तमर्थ श्रेष्ठिपुत्रोऽपि यथाऽङ्गीकृतवानयम् ॥१४२१॥ त्वमेवं यदि कर्ताऽसि तदा नः कमला तव । न घेद्वयं ग्रहीष्यामश्चत्वारोऽपि श्रियं तव ॥१४२२ ॥ इत्युदित्वाऽमुना साधं विदधे तैः कराहतिः । रत्नचूडोऽपि तत्कृत्वा चचाल पुरतस्ततः ॥ १४२३ ॥ १ धूर्ताः । * ॥१७९॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy