SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ शान्तिनायचरित्रम् ॥ ६३ ॥ ॥ ७२८ ॥ तां धर्मदेशनां श्रुत्वा गतशोकोऽपराजितः । जातत्रतपरीणामो नत्वा तं गणनायकम् गृहमागत्य राज्ये च स्थापयित्वा स्वनन्दनम् । समाददे परिव्रज्यां नृपमण्डलसंयुतः बहुकालं तपस्तप्त्वा कृत्वाऽन्तेऽनशनं तथा । विपद्याऽच्युतकल्पेऽसौ संजज्ञे त्रिदशेश्वरः इतोsस्य जम्बूद्वीपस्य क्षेत्रे भरतनामनि । । वैताढ्यदक्षिणश्रेण्यां पुरे गगनवल्लभे मेघवाहन विद्याभृद्भपतेर्मेघमालिनी ! बभ्रुव गुणसंयुक्ता गेहिनी रूपशालिनी अनन्तवीर्यो नरकादुध्धृत्य समभूत् तयोः । मेघनादाभिधः पुत्रो यौवनं समवाप सः कन्या विवाहस्तं स्वराज्ये विनिवेश्य च । प्रतिपेदेऽनगारत्वं मेघवाहनभूपतिः सोsथ श्रेणिद्वयस्वामी मेघनादो महामतिः । दशोत्तरशतं देशान् स्वसुतेभ्यो ददौ क्रमात् ॥ ७२९ ॥ गत्वा सुराचलेऽन्येद्युः प्रतिमाः शाश्वतार्हताम् । पूजयामास विद्यां च प्रज्ञप्तिं भक्तिपूर्वकम् ॥ ७३० ॥ तदा तत्राऽऽययुः सर्वदेवाः कल्पनिवासिनः । अच्युतेन्द्रेण दृष्टोऽसौ स्नेहात् सम्भापितस्तथा ॥ ७३१ ॥ स आख्याय पूर्वभवस्वरूपं धर्मसंयुतम् । निजं स्थानं ययौ मेघनादोऽपि खचरेश्वरः भक्त्या मरगुरोः पार्श्वे मुनीन्द्रस्याऽनगारताम् । प्रतिपद्य तपस्तेपे गत्वा नन्दनपर्वते अश्वग्रीवसुतजीवाऽसुरेणास्य विनिर्मिताः । महोपसर्गास्तत्रैकरात्रि की प्रतिमाजुषः प्रतिमां पारयित्वा तां विहृत्य जगतीतले । मृत्वा समाधिना चाऽन्ते सोप्यभूदच्युतेश्वरः ॥ ७३२ ॥ ॥ ७३३ ॥ ॥ ७३४ ॥ ॥ ७३५ ॥ ॥ ७२२ ॥ ॥ ७२३ ॥ युग्मम् ) ॥ ७२४ ॥ ॥ ७२५ ॥ ॥ ७२६ ॥ ( युग्मम् ) ॥ ७२७ ॥ तृतीयः प्रस्ताव: ॥ ६३ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy