________________
जैन धर्मममुं रम्यं यत्नतः प्रकरोम्यहम् । परमस्य फलं भावि न वेति ज्ञायते न हि ॥६८१ ॥ विचिकित्सामिमां कृत्वा मृत्वाचाऽऽयुःक्षये सका। सञ्जाता तत्र तदितः स्थानं सङ्कीर्तयाम्यहम् ॥ ६८२ ॥ विजयेऽत्रैव वैतादये नगरे सुरमन्दिरे । राजा कनकपूज्योऽभूद् वायुवेगा च तत्प्रिया ॥६८३॥ तस्य कीर्तिमतो राज्ञः पुत्रः कीर्तिधरोऽस्म्यहम् । ममाऽप्यनिलवेगाख्या बभूव सहचारिणी ॥ ६८४॥ गजकुम्भवलीवर्दस्वमत्रितयसूचितः। प्रतिविष्णुपो जज्ञे दमितारिर्ममाऽऽत्मजः ॥६८५॥ उद्यौवनो मया बह्वीः स कन्याः परिणायितः। स्थापितश्च निजेराज्ये मया चाऽऽत्ताऽनगारता॥ ६८६॥ दमितारेनृपस्याऽस्य मदिरा नाम वल्लभा। तत्कुक्षिसम्भवा पुत्री कनकधीर्भवत्यभूत् ॥६८७॥ यत् त्वया विहिता धर्मविचिकित्सा पुरा भवे । तत् ते बन्धुवियोगादि भद्रे ! दुःखमभूदिदम् ॥ ६८८॥ निजं पूर्वभवं श्रुत्वा पितामहमुनेर्मुखात् । जातसंसारवैराग्या दमितारिनृपात्मजा ॥६८९॥ ऊचेऽपराजिताज्जन्तवीर्यावेवं कृताञ्जलिः। चेद् युवामनुजानीथस्तदद्य प्रव्रजाम्यहम् ॥६९०॥ ताभ्यां सा भणिता चैव संप्राप्य सुभगापुरीम् । स्वयंप्रभजिनोपान्ते भूयास्त्वं व्रतिनी शुभे!॥ ६९१ ॥ तं तपोधनमानम्य विमानमधिरुह्य च । तो तया सहितौ शीघ्रं संप्राप्तौ नगरी निजाम् ॥६९२॥ स्वयंप्रभजिनोऽन्येयुः सुरासुरनरार्चितः । आगत्य समवासार्षीत् सुभगायां पुरि प्रभुः ॥६९३ ।। गत्वा भक्या ववन्दाते तमिमौ बलकेशवौ । धर्म शुश्रुवतः सार्द्ध तया च कनकश्रिया ॥६९४ ॥