________________
(४८) - वस्तुतः केवलेन सर्वलोकाऽलोकावभासकेन सर्वेषु पदार्थेषु बुद्धेष्वपि परमयोगफलस्याऽन्त्यसामर्थ्ययोगसाध्यस्याऽपवर्गस्वाभावान्न पूर्णबुद्धता तथाफलविकलवाद्विवक्षिता, प्राप्ते तु सिद्धत्वे केवलज्ञानाऽवबुद्धपरमाऽपवर्गप्राप्त्या बुद्धत्वस्य यथार्थता विवक्षितेति तदपेक्षया सिद्धा भगवन्त एव बुद्धा इति ।
'बुद्धाणं बोहयाण 'मित्यत्र तूच्यमाना बुद्धता बोधकतायाः कारणत्वदर्शनाय, अत्र तु निरपेक्षा 'बुद्ध'त्तिशब्देन 'बुझंति'त्याख्यातेन वोच्यमाना निरपेक्षेति नाऽत्र तपोऽभिप्रायसिद्धादयो ग्राह्याः । न च [स] चरमभववर्तिकेवलज्ञानेनोच्यमानाः सापेक्षा वुद्धा वाच्याः, किन्वन्यादृश एंव, तेषां पूर्वोक्तानां सर्वथा कृतकृत्यत्वभावादित्याह-'पारगता' इति । जगति हि 'पार'शब्दो यद्यप्यरण्याऽऽदिपारेऽपि वर्तते, तथाप्यत्र प्रकरणान्निविशेषणत्वादन्यत्राऽनेकशः सूचनाच्च संसारसमुद्रस्यैव पारो ग्राह्यः, यतः श्री-औपपातिकादिषु शास्त्रेषु महता विस्तरेण संसारस्य समुद्रता तत्तारणप्रवणस्य संयमस्य च पोततोक्तेति । प्रस्तुतेऽपि संसारसमुद्रस्य पारंगता इति ग्राह्यम् । कविरूढ्या 'प्राप्तुं पारमपारस्य पारावारस्ये 'ति समुद्रस्य पाराधिगतिः दुष्करता च कथ्यते । अरण्यान्याः पाराधिगमेऽश्वादीनां वाहनानामुपकारिता, न च क्वापि संसारस्य परतीरप्रापकाणां तपः-संयमादीनामुपमाऽश्वादिभिः क्रियते इति संसारसमुद्र एव ग्राह्य इति, उक्तं चाऽर्हतां शरणं कुर्वतां प्राक् 'भवजलधिपोता' इति, अत्रापि च प्राक् “सिद्धिपुरनिवासिन" इति ।
— संसारसमुद्रस्य हि पारगमनं विधातुमनन्तभवानु(वो)यमिना भाव्यम् । यतो न चारित्रमन्तरा मोक्षः कदापि कस्यापि, विशेषतस्त्वर्हतां, यतस्ते हि न द्रव्यलिङ्गेऽपि भजनापदं, तेषामवश्यमुभयलिङ्गानामेव मोक्षस्य भावात् , येषामप्यन्यलिङ्गसिद्धानां भजनाऽस्ति लिङ्गद्वारे, साऽपि द्रव्यलिङ्गमाश्रित्य, सापि कन्दाचिकैव, यतः चिरजीविनस्तु तेऽवश्यं द्रव्यलिङ्गमादधुरेव । तत्त्वतस्तेऽपि नाऽपवादपदं सलिङ्गद्रव्यरूपे, परं भावलिङ्गं प्रतीत्य न कस्याऽपि कुत्राऽपि भजना, तस्यैकान्तिकत्वाद्। तद् चारित्ररूपं भावलिङ्गं तस्यैव भव्यस्य स्याद्, योऽनन्तभवान् यावदभ्यस्यति चारित्रम् । - चारित्रं हि शिक्षाप्रकर्पलभ्यं, शिक्षाप्रकर्षों हि लभ्योऽभ्यासेनैव, भूयो भूयः प्रवृत्तिहि कर्मसु कौशलमातनोतीति, 'अभ्यासो हि प्रायः प्रभूतजन्मानुगो भवति शुद्ध' इति चोक्तेः । .
___ न च वाच्यं चारित्रस्याऽऽकर्षा अष्टावेव शास्त्रकृभिराम्नायन्ते, तत्कथमनन्तान् भवांश्चारित्रमिति ? यत आकर्षास्ते भावचारित्रमपेक्ष्योच्यन्ते, इदं तूभयचारित्रमपेक्य, अष्टभवानन्त्यान् विमुच्यान्येषु सर्वेषु भवेषु द्रव्यचारित्रस्याऽवश्यंभावात् , अत एव सर्वेषां भव्यानामप्यनन्तशो अवेयकोत्पादस्य सिद्धिः । मरुदेव्याऽदिभिर्व्यभिचार इत्पपि नात्र नोयं, यतो नहि मरुदेवा अनन्तकालात्