________________
प्रांगव्यवहारतोऽनादिवनस्पतितो निर्गत्याऽत्राऽऽयाता, तादृशश्च जीवः कश्चिदेवेति नाऽनन्तद्रव्यः चरणप्रवादस्य बाधः, सामान्येनाऽप्यपवादस्य स्वस्थाननियतत्वेनोत्सर्गविधेरबाधादिति । . .
किञ्च- त्रैकालिकसिद्धानामनन्तभाग एवाऽप्रतिपातितया सिद्धः, शेषास्तु सर्वेऽपि सिद्धाः प्रतिपातवन्तः । यद्यपि तत्र प्रतिपातस्यात्येव बहुत्वम् । यतः केऽपि एकशोऽन्तर्मुहूर्त्तमात्रकालप्रतिपातिनो भवन्ति, यावत् केचन बहुशः प्रतिपातिनः, अपाऽर्धपुद्गलाऽऽवत यावत् संसारे विपरिवर्तिनोऽपि भवन्ति, एतदेव च वृत्तान्तमनुश्रित्य शास्त्रकृद्भिः प्रतिभव्यं तथाभव्यत्वस्य सत्त्वं वैचित्र्यं च स्वीक्रियते ।
प्रस्तुतं तु सर्वेऽपि भव्याः प्राक् तावदनन्तशो द्रव्यचारित्रिणो भूत्वा चारित्रशिक्षामभ्यस्यन्ति, तथा जातेऽपि केचिद् पाप्य भावचारित्रमप्राप्य तादृक् प्रतिपातिनो भवन्ति यथा ह्यपाधपुद्गलावर्तमपि यावद् भावचारित्रं न लभन्ते, तावता कालेन भावचारित्रमाप्य परमपदं प्राप्नुवन्ति ।
एवं च साधितमिदं-संसारसमुद्रस्य प्रतरण महाकष्टमयं, ततः परमपदपुरस्य प्राप्तिरप्यतिकष्टमयीति ।
सिद्धानां संसारसमुद्रमुल्लङ्घय सिद्धपुरप्राप्ति:वमेव, किन्तु सम्यक्त्वादिगुणश्रेणिप्राप्तिपारम्पर्येणैवेत्याहुः-'परम्परगतेभ्य ' इति ।
एष हि नियमो निरपवाद एव यत् करणत्रिक-सम्यक्त्वाऽधिगम-क्षपकश्रेण्याऽऽरोह-सयोगाऽयोगकेवलित्वपरम्परयैव सिद्धरधिगमः, न ह्यत्राऽनन्तकालचक्रैरप्यपवादपदमायाति, ततः सुष्ठुक्तं-"परम्परागता एव सिद्धा" इति ।
एते च यद्यपि सिद्धिपुरनिवासितयोका अत्र, परं तदुक्तिरुपचारप्रधाना, यतः सर्वार्थसिद्धात् सिद्धिशिला द्वादशसु योजनेषु, तदुपर्येव च सिद्धानामवस्थानं, परमासन्नं तथाविधं न परं स्थिर स्थानं, विहाय तां सिद्धिशिलामीपत्माग्भारानाम्नीमिति, तया सिद्धानामवस्थानं, तां पुरत्वेन प्रकल्प्य ।.
वस्तुतस्तु तस्या अप्युपरिक्रोशत्रयीमतिक्रम्य, तुर्यस्यापि क्रोशस्य पञ्चभागानतिक्रम्य प्रान्त्य एव तत्क्रोशषष्ठभागेऽवस्थानं सिद्धानां भगवताम् । न च तत्र सूक्ष्मा अपि पृथ्व्यादयस्तथाऽवगाहनया लोकाग्रं समवाप्य तिष्ठेयुस्तेषामङ्गुलासङ्ख्यभागमात्रावगाहात्, हस्तादिपरिमिता... वगाहनावन्तस्तु सिद्धा एव, सर्वेपि सिद्धा उपरितनभागे लोकाग्रमभिव्याप्यैव तिष्ठन्ति, ततः सुष्ठ्वेवोक्तं'लोकाग्रमुपगतेभ्य' इति ।
___ यद्यपि चतुर्दशरज्जुप्रमाणे सर्वस्मिन्नपि लोके तस्य पञ्चास्तिकायात्मकत्वाद् धर्माऽधर्मास्तिकाययोः सत्त्वात् गति-स्थितिपरिणतानां जीव-पुद्गलानां गति-स्थिती प्रवर्तते एव, परं जीवानां सामान्येन