________________
च कर्तृणि । न चाधारोऽपि ज्ञानानां, किन्तु ज्ञानमय आत्मैव, इन्द्रियादीनि तु तदाविर्भावे करणानि, ज्ञानानामाधारोऽप्यात्मैव, हेतुश्च तुल्यसाधनेष्वतीन्द्रियादिषु ज्ञानोत्पत्तेर्वैषम्यं, स्मृतेर्वैचित्र्यं, प्रयत्ने महत्यपि कदाचिदस्मरणं, कदाचित्त्वल्पेऽपि प्रयत्ने स्मरणं, केषाञ्चिदनुभूतानां स्मरणं, केषाञ्चित्त्वस्मरणं, जीवेष्वपि केचित्स्मृतिमन्तः, विचित्रस्मृतिमन्तः, स्मृतिशून्याः, दुष्करस्मृतिका अपि ।
किञ्च-जीवस्य ज्ञानस्वभावाऽभावे भवान्तरविज्ञानं जातिस्मरणाख्यं न स्यात् , प्राक्तनभवीयतनुहृषीकाद्यभावादिति, पटुसंस्कारवतां पटुस्मृतीनां च भावान्न भवान्तरीयं मनस्तत्र तत्स्मारकं, मनसो नित्यत्वमणुत्वञ्च न प्रमाणसिद्धं, न च वास्तवमित्यात्मैव ज्ञानरूप इति ।
आत्मस्वभावभूतं च ज्ञानं केवलमेव, इन्द्रियाऽर्थसंनिकर्षाऽऽदिद्वारेण यावजागतीयानां पदार्थानां ज्ञानस्य कर्तुमशक्यत्वात् , नाऽऽत्मनामसर्वज्ञत्वे सर्वज्ञत्वस्य सम्भव इति, अभावे च सर्वज्ञस्य नाऽऽत्माद्यतीन्द्रियपदार्थदर्शी स्यात् , शास्त्राणि चैवमशेषाणि कपोलकल्पितदशामासादयेयुः । तस्मादभ्युपेयं(य) आत्मा ज्ञानमयत्वेन सर्वज्ञत्वरूपेण च, तथाऽभ्युपगमे च सिद्धान्तं (सिद्ध)भगवतां शुद्धात्मरूपत्वादवश्यमेव सार्वश्यं, ततश्च. सिद्धा ये, ते बुद्धा इति कथ्यन्ते । बुद्धत्वं च निश्शेषोपाधिरहितत्वात् केवलित्वरूपमेवेति ।
किञ्च-सिद्धत्वं हि प्रक्षीणसर्वकर्मत्वेन निष्ठितार्थत्वं, मत्यादीनि च ज्ञानानि न स्वाभाविकानि, निश्चयेनैकस्य केवलस्यैवावरणभेद-ततूक्षयोपशमभेदाऽपेक्षया मत्यादितया व्यपदेशात् , अत एव च मत्यादितारतम्यवतामपि पञ्चानामपि ज्ञानावरणानां क्षये एकमेव केवलं क्षायिकस्वभावं, न च तेषां प्रक्षायिकत्वं, तथा च क्षोणसर्वाऽऽवरणानां सिद्धानां केवलज्ञानयुक्तन्वेनैव बुद्धत्वमवसेयम्, अत एव च नाऽत्र सविशेषणः प्रयोग इति ।
किश्च-अस्त्येव भवस्थकेवलिनां बुद्धत्वं निरुपचरितं, परं भवस्थदशाया एव सान्तत्वान्न तदनाद्यनन्तं, अत एव च केवलज्ञानस्य स्वरूपतो भेदाऽभावेऽपि सयोग्यादिभेदेन केवलस्य भेदोपन्यासः, यदि च केवलस्याऽन्यादृशो भेदोऽभविष्यत् प्रथमाऽप्रथम-चरमाऽऽदिभेदा नावक्ष्यन्त ते हि समानरूपतयैकाकार एव वस्तुनि भवन्ति, बादरसम्परायचारित्राऽऽदीनां तथाविकल्पास्तव्यपदेशस्यैकत्वादेव, यद्वा विवक्षाऽवधीनैव भेदोक्तिसिद्धिर्न तु वस्तुभेदाधीनेति, नाऽपि भवेत्ताशभेदापेक्षयैकत्वं केवलस्य, पर मेगविहं केवल 'मितिवचनं तु सर्वत्र जागरुकं प्रमाणरूपं च । . ___किञ्च-मत्यादीनां यो वास्तवो भेदः स स्वरूपाऽपेक्षः, केवलस्य तु भेदस्तद्वद्भेदापेक्षः, न च तद्भेदे वस्तुनो वास्तवो भेदः, ततोऽपि केवलस्य न वैचित्र्यं स्वभावात् , परं सिद्धानां पार्थक्यात तदीयं शाश्वतं केवलज्ञानमिति सिद्धा एव बुद्धशब्देन विशिष्यन्ते । आगमेऽपि 'सिझति बुझंती' ति सिद्धानेव भगवत आश्रित्योच्यते इति ।