________________
(४६)
तत् सर्वं यथावदवलोक्यत एव । तथा च ये जीवाः स्वमालम्बनीकृत्य भाविसिद्धिकास्तेषां तु स्वयं जाता एव सिद्धिसिद्धावालम्बन, परेषामपि महानुभावानामुपदेशाद्याश्रित्य ये गामिनः सिद्धि सौधं, ते तत एव सेत्स्यन्तीति निश्चितार्थज्ञान त् नैकस्यापि सिद्धस्याकृतकृत्यता।
किञ्च-जैना नैकेश्वरवादिन इति, कालभेदेन भाविनोऽर्हन्तेऽनन्तास्तैश्च प्रतिबोधिता अप्यनन्ताः सिद्धिसौधमधिगन्तारो भविष्यन्तीति सर्वेऽपि सर्ववेदिनो विदन्तीति तेषां मते न कस्यापि सिद्धस्याकृतकृत्यता । सा वेकेश्वरवादिनां मते, एकत्वात्तारकस्य विधातृत्वाच्च भवति । तदर्थमेव च तेषामधरमानापि स्वशासनसत्कार-न्यत्काराम्यामवतारकल्पना जागर्तीति ।
ननु सिद्धशब्देन निष्ठितार्थत्वसूचनेन कृतकृत्यत्वस्य सूचनात्. कृतकृत्यत्वं पुनरुक्तं कथं नेति चेत् ?, सत्यं, प्राक् तावदर्थसिद्धादिभेदेनाने कधा द्रव्यसिद्धा अपि जगति सिद्धशदेनोच्यन्ते, न च ते कृतकृत्या इति कृतकृत्यग्रहणम् ।
यद्यपि प्रागर्हतां शरणं स्वीकार्यम् , तदनन्तरं शरणत्वेन स्वीकारः सिद्धानां आईतशासनप्रभावलब्धसिद्धीनामेव सिद्धानां शरणं सूचयन्ति । ते च भावसिद्धा एव, परमभिप्रायादिसिद्धानामपि शासने आहेते स्वीकारात् , आईतशासनस्वीकृतानामपि भावसिद्धानामेव शरणस्वीकाराधिकार इति सूचनार्थ सर्वथा कृतकृत्याः सिद्धा इति वचनं योग्यमेव ।
___किञ्च -नामसिद्रादिव्यवच्छेदार्थमपि कृतकृत्यत्वग्रहो नाऽनुचितः । जीवेन सह यदीर्घकालं कर्म रजो मलं चेति त्रिविधं कर्म यत् सितंबद्ध मस्ति, तद् मातं-शुक्लध्यानाग्निना भस्मसान्नीतं यैस्तेऽत्र सितस्य ध्मानात् निरुक्तविधिना सिद्धा उच्यन्ते, त एव च कृतकृत्या भवितुमर्हन्ति । व्युत्पत्त्या च सिद्धयन्ति स्म-निष्ठितार्थाभवन्ति स्मेति सिद्धा इति कथ्यन्ते । तथा च तेषां व्युत्पत्तिप्तिद्धमेव कृतकृत्यत्वम् ।
___ यद्वा सिद्भिशब्दो लोकाग्रभागवर्तिन्याः सर्वार्थसिद्धाख्यादेवलोकाद् द्वादशयोजनान्तरालाया ईषत्प्राग्भारशिलाया वाचकतया रुढः, आगमेयु सदातना चैषा सज्ञा, तस्यां स्थिता ये ते सिद्धाः, तास्थ्यात् तव्यपदेशस्य न्यायसिद्धत्वात् ।।
यद्यपि लोकान्तलक्षणस्य सिद्धस्थानस्य सिद्धिशिलायाश्च योजनमन्तरालमस्ति, तथापि न कोऽप्यन्यः पदार्थः सिद्धानामुपलक्षकस्तत्रेति सिद्धिशिलाया उपरिस्थितत्वात् सिद्धा इति कथ्यन्ते ।
सिद्धशब्देनोपलक्षकतया बुद्धाद्यवस्था ध्वनिता द्रष्टव्या, यतः शासने आर्हते ये सिद्धा भवन्ति, ते यथा नोच्छेदरूपेणाऽयन्ताऽभावरूपास्तथैव नैव ज्ञानगुणशून्याः, यथा वैशेषिक-नैयायिकैविशेषगुणानां व्युच्छेदो मुक्तिरित्युक्त्वा ज्ञानशून्याः सिद्धजीवा इत्युघुष्टं, तथा नात्र, यतस्तैरिन्द्रियार्थसन्निकर्ष एव ज्ञानस्योत्पादकत्वेन मतः, सिद्धानां च शरीराद्यभावान्नेन्द्रियाणि, न चाथैः सन्निकर्षः ततो ज्ञानसत्तावन्तो नैव तेषां सिद्धाः, परं शासने आर्हते इन्द्रियाणि ज्ञानोत्पत्ति प्रतीत्य करणानि, न