________________
(४५) दर्शनशास्त्रत्वाच्च तत्वार्थस्यैवमुपन्यासः सिद्धानां निरुपमसुखसिद्धयर्थम् ।
आर्षे तु 'णवि अस्थि माणुसाणं, तं सुक्खं णेव सव्वदेवाणं । जं सिद्धाणं सोक्खं, अब्बावाहं उवगयाणं ॥१८॥ सुरगणसुहं समत्तं, सम्बद्धापिडियं अणंतगुणं । णवि पावइ मुत्तिसुहं, णंताहिवि वग्ग-वग्गूहि ॥१८१।।
यावत् 'इय सयकालतित्ते 'त्यादि । णित्थिण्णसव्वदुक्खा, जाइजरामरणवंधणविमुक्का । अव्बावाहं सुक्खं, अणुहोति सासयं सिद्धा ॥१८८॥
इत्यन्तमुक्तमत्राऽवगन्तव्यम् । अत्र भाष्यकार्यद्-दुःखाऽभावरूपात् सुखात् कर्मक्लेशाऽभावजं मोक्षसुखं पार्थक्येनोक्तं तत् कर्मक्लेशानामात्मनां स्वरूपं यत् सुखाऽऽनन्त्यरूपं तद्बाधकानां व्यपगमात् स्वस्वभावसुख'ऽपेक्षया ।
- अत एवाऽऽर्षे 'परिणिव्यायंती 'त्युक्त्वाऽपि 'सव्वदुक्खाणमंतं करती'त्युच्यते । आत्मनः स्वयं सुखस्वरूपता तद्वेदनस्वभावयुक्तता चाऽत्र प्रागेव प्रसाधितेति ।
किश्च-आर्षप्रतिपादितासु गाथासु सिद्धसुखस्य सर्वादागुणनानन्तरं अनन्तवर्गकरणं, तत् सिद्धानां शाश्वतं सर्वाद्धं सुखमित्यस्यार्थस्य द्योतनाय, अनन्तवर्गभागस्य बहुत्वदर्शनार्थं चेति ।
एवं च वर्णितस्वरूपा अपि सिद्धा भगवन्तो यद्यकृतार्थाः स्युस्तदा वर्णितपूर्व समस्तमपि स्वरूपं न सुखरूपं स्याद् , अकृतार्थत्वे साध्यान्तरेच्छाभावेन दुःखासिकाया अविरामादित्याह-'सर्वथा कृतकृत्या' इति, सर्वथा कृतकृत्यत्वं भगवतां सिद्धानां सम्पूर्णानां सौख्यानामधिगमात्, न किञ्चिदपि तेषां कृत्यमवशिष्टमस्ति सर्वकालभाविनां सर्वभावानामवोकनाच ।
___ यथा यथा तैतिं केवलेन भावि तथा तथैव सर्व जगति परिणमति । एषैव च भवितव्यता नियतिर्भावीत्यादिशब्दैः पोच्यते, कथमन्यथा भविष्यन्त्यां भाविन्या भवितव्यताया नियत्या वा पूर्वकालवर्तिता स्यात् ?, कथं च तस्याः सर्वाणि कार्याण्युद्दिश्य कारणताऽपि स्यात् ? । ... न च वाच्यं 'मुच्यतां जगदप्येषा मतिमैत्री निगद्यते ' इतिवचनात् सम्यक्त्वोत्पादेन सह जगतो मुक्तेर्भावनाया उद्भावितत्वात् वरबोधिमधिद्भिश्च जगत उद्धाराय समग्रस्य कट्या बन्धात् समस्तजगज्जन्तुजातस्योद्धाराऽभावे कथं सामान्यसिद्धानां तीर्थकृत्सिद्धानां च कृतकृत्यता स्यायेन सर्वथा कृतकृत्याः सिद्धा भगवन्त इत्युच्यमानं [चेत्] सङ्गतिमेति ? । यतो जातकेवला एव सिद्धयन्ति नेतरे, जातकेवलाश्चावश्यं येषां - येषां जीवानां यान् यांस्तारकानालम्ब्य भाविसिद्धिगमनं यावदगमनमपि