________________
(४२)
काऽऽनन्द एति वास्तवताम्, अपौद्गलिकस्य व्यवहाराऽभावात् , कथं तादृशमुपमानं तुलाद्रव्यं वा स्यायेनाऽपौद्गलिक आत्मा तादृश एव तदानन्द उपमीयते तोल्येत वेति ।
किञ्च-यो य इह जगति पौद्गलिकोऽप्यानन्दो यः सुखशब्देनाऽभिधीयते, स सर्वोऽपि तात्विकसुखशब्दवाच्यात् सुखाद् दूरतर एव । यतः सर्वोऽपि दृश्य आनन्दः पुद्गलानामायत्तः, अनुभवितुः कायादेरभ्यन्तरस्य साधनभूतानां बाह्यानां संयोगस्याऽऽयत्तः, अन्तशः पुण्यस्याधीनस्तच्च क्षीयते एवाऽनुशणमुपभोगेन फलस्याऽपचीयमानम् ।
एवं च दृश्यमानः सर्वोऽप्यानन्दस्तत्त्वतो वर्तमानकालेऽपि भविष्यचिन्तादुःखपूर्णः, स च कथं पुद्गलानां पुण्यकर्मगो भवजीवितस्य बाह्याभ्यन्तरसंयोगानां चानायत्तेन सिद्धानां सौख्येनोपमीयेत तोल्येत वा ? इति ।
किञ्च-दृश्यमानः सर्वोऽप्यानन्दो भ्रंशनांतरीयक एव, यतः स सर्वो बाह्य हेतोरुद्भवति, बाह्यहेतूद्भवं सर्वं च कादाचित्क्रमेव, यतः कादाचित्कभवनं कारणोपनिबन्धमिति विद्वत्पर्षदां सिद्ध हव प्रवादः, सिद्धानां तु सुखं पारमार्थिकाऽऽनन्दरूपं न कारणोपनिबन्धनम् । प्रतिबन्ध कानां कर्मणां सहकारिणां मर्यादाकारिणां च साताऽऽदीनां चाऽभावो जायमानोऽपि न परिणामिकारणतामनुरुध्येत । सिद्धानामात्मैव तथासुखोद्भवे परिणामिकारणतामनुरुध्यते । स चाऽहेतुक एव, स्वस्वभावरूपत्वात् तस्य, आत्मनश्चाऽविनाशिस्वरूपत्वादिति ।
शास्त्रेषु पठ्यतेऽपि ।
'तं कह-भण्णइ. सोक्खं ? सुचिरेण वि जस्स दुक्खमल्लियइ 'त्ति । : या च यावती च सुखमात्राऽनुभूयते जीवितं धारयता सा चेत् प्रतिपातिनो भवति, तदा तत्सुखमात्रायाः पर्यवसाने दुःखस्यापि तावत्येव मात्रा समुद्भवति, तत एव सुखस्य विमानाऽऽधिपत्यस्य परां काष्ठमनुभवतः सुरानाश्रित्य च्यवन नातं दुःखं वर्गयता विदुषा प्रोच्यते शास्त्रे-यदुत
तं सुरविमाणविभवं चिंतिय चवणं च देवलोगाओ ।
अइवलियं चिय हिययं सयसकर जं ण फुट्टेइ । ॥१॥ त्ति एवं च संसारवर्तिन्या चिन्तादिदुःखग्रस्तया प्रतिपातजमहादुःखसंवलितया सुखमात्रया तदत्यन्तप्रतिरूपिण्याश्चिनादिदुःखरहितायाः स्वस्वभावरूपत्वात् सनातनभाविन्याः सिद्धानां भगवतां वर्तमानायाः सुखमात्राया उपमानं तुलना न स्यादेवेति सिद्धानां भगवतामानन्दस्य निरुपमानतोच्यमाना सङ्गच्छत एव ।
यथा च जगत्तिनी सुखमात्रा दुःखेन भिन्नत्वादनन्तरं पाताच नोपमानमायाति, तथा सा न पूर्णाभिलापेति चापि नोपमानपदमायाति । यतः सा पुद्गलवातविषयकेच्छाधीना, इच्छा चाऽऽकाशप्रतिरूपिणी न कदापि पूर्तिमायाति, तदपूर्ती च तद्विषयकपुद्गल ना तृप्तिस्तत्सुखं च कौतस्त्यं पूर्ण