________________
(४३)
"
भवति ? सिद्धसुखसमूहस्तु न पौद्गल इति न तदिच्छापूर्त्ति जनितः किन्त्वात्मस्वभाव जोड़नन्यापेक्षोSसाधारणोऽन्यूनश्चेति सोऽभिलापरहितमिति, अपूर्णाऽभिलाषसंवलितेन सांसारिकेग परमसुखेनापि नोपमीयेत न च तोल्येतेति ' निरुपमाऽऽनन्दसङ्गताः सिद्धा भगवन्त ' इत्युच्यमानं संगतमेव युक्त्येति ।
उच्यते चात्र
6
यन्न दुःखेन सम्भिन्नं, न च भ्रष्टमनन्तरम् । अभिलाषाऽपनीतं च तज्ज्ञेयं परमं पदम् ' ॥१॥ इति ।
सर्वेऽपि मुमुक्षवः परमपदार्थिन: 'ब्रह्मचर्यं तपश्चेति, द्वयं तत्प्राप्तयेऽल 'मिति अध्यवसिताः, अध्यवसिताश्च तयोर्द्वयोरात्माऽऽनन्दकारितायां विषयाणां स्पर्शनादीन्द्रियपोषणस्य दुःखरूपतायां दुःखफलतायां दुःखाऽनुबन्धितायामिति न तेषामाशङ्का स्यात् स्वप्नेऽपि यदुत - ' सिद्धानां रताद्यभावात् स्वाद्वन्नादिभोगाऽभावाच्च किमेव सुखनामापीति, अनुभवविरुद्धे तथाऽऽराङ्कालेशस्याप्यसम्भवादिति ।
किञ्च-रताद्यनुभवश्चेत् सुखरूपः स्यात्, न पर्यवसायी स्यात् न च श्रान्ति-रेतःस्खलनाऽऽदिदुष्टः स्यात् । यथा च कण्डूतेः पामनस्यैव कच्छ्वाः प्रभावात् सौख्यं, न परस्य, न च कोऽपि कोविदः कण्डूतीनां सुखमवाप्स्यामीतिकृत्वा कच्छ्वा उत्पादनाय प्रयतते, न च कण्डूतीनामकरणं दुःखहेतुतथा सुखाऽभावकारणतया वा मन्यते, अन्नाऽऽदिभोगस्तु तेषामेव दुःखनिवृत्तिस्वरूपतया सुखतयाऽवभासते, ये बुभुक्षादिभिरार्त्ताः स्युः भ्रातादीनां तु स्वादुनमाऽनादिभोगादेरप्यनिष्टानुबन्धित्वस्यानुसन्धानेन प्रत्युत दुःखरूपत्वापातादिति ।
किञ्च ये हि जगति सर्वकालीनाः सर्वेषामसुमतां सर्वप्रकारा ये विषयास्वादास्ते तत्तज्ञानपूर्वका एव, अन्यथा जडानामिव सुखलादाभावात् । तानि च सर्वकालीनानि सर्वज्ञानानां भगवतां सिद्धानां लोकालोकाऽवभासक केवलज्ञानयुक्तत्वाद् प्रतिक्षणमेव भवन्तीति तादृशाऽज्ञशेश्वरानपेक्ष्यापि सिद्धाः सर्वज्ञानज्ञाना इति परमसुखिन एव तद्वदेव सर्वकालीनानां देवानां यदुपमातीतं सुखं नाट्यादिसंनिरीक्षणाऽऽदिसम्भवं तदपि प्रतिक्षणमनन्त केवलज्ञानयुक्तत्वाज्जानन्त्येवेति कथं न तदपेक्षयापि सिद्धा नाऽनन्तसौख्या इति ।
न च वाच्यं तर्हि अशुचिरसाद्यास्त्वादादिजन्म दुःखमपि सिद्धानां सर्वकालीनं भविष्यतीति, यतः तद्दुःखमशुचिरसाद्याऽऽस्वादादिजन्यं तदनुभवितृषु स्यात्, इमे तु तद्वेत्तार इति ज्ञानजन्यं सुखमेवाप्नुवन्तीति । यथा स्वप्नानां द्रष्टाऽनुभवेन सुखदुःखोभयं वेदयति, परं सातिशयज्ञानवान् तत्स्वप्ना - गमं जानानः ज्ञानजातं सुखमेवाप्नोति, नाऽनुभवजं दुःखलेशमपीति न बाधः निरुपमसुखसङ्गतत्वे सिद्धानामिति ।