________________
(४१)
न च वाच्यं संसारस्थस्य दुःखमिश्रस्याऽत्यन्तिके.च्छेदेनैव मुक्तरुपादेयता भविष्यतीति, यतः प्रेक्षावद्भिर्दुःखस्य प्रहाणेरिष्टत्वेऽप्यंशेन सुखपरिहाणेरिष्टत्वाभावात् ।
किञ्च-धर्मस्याऽऽचरणेन मोक्षः, धर्मश्च दुःखमेव दूरीकुर्यात् न तु सुखं, सुखदूरीकरणोदेशस्तु न मूर्खतमस्यापि, नचाऽनीप्सितं साधयन् धर्मो धर्मस्वं यायात् ।
नं च वाच्यं धर्मः पुण्यरूपः, पुण्यं च तज्जातीयपुद्गलोपचयरूपं, तदुदयाच्च सुखं, मोक्षश्च पुण्याऽपुण्योभयक्षयादेव जायते, तस्मात् पापानामात्यन्तिकक्षयेन यथा दुःखस्याऽत्यन्तिकः क्षयस्तथा पुण्यानामप्यास्यन्तिकक्षयेन सुखस्याप्यात्यन्तिकः क्षय एष्टव्य इति न्यायस्य समानत्वादिति ।
____ यतः धर्मो हि द्विरूपः, तत्र योगसहकृतधर्मस्य पुण्यवन्धहेतुत्वेऽपि स्वरूपधर्मस्य सम्यग्दर्शनादेन पुण्ये हेतुता, न च पुण्यस्य कार्यताऽपि । यच्च सम्यक्त्वाऽऽदीनां देवाऽऽदिगत्यादिहेतुत्वं कथ्यते, तत्तत्सहचारितकषायसामर्थ्यसमुत्पन्नम्, नहि निष्कपायाऽवस्थाश्रितं सम्यग्दर्शनादि कस्यापि कर्मविशेषस्य बन्धे हेतुतामायाति, निष्कषायत्वे विशेषेण तु योगाऽतीतत्वदशायामात्मनः परमशुद्धिकारणमेलदेवेति ज्ञानयोगलक्षणेनोच्यमानो धर्मः द्वितीयोऽद्वितीयरूपः स नैर्मल्यमेव विदधाति, न लेशतोऽपि बन्धमिति ।
सिद्धत्वे न हि सातवेदनीयोदयजं सुखमाम्नायते, किन्त्वात्मस्वभावरूपमेव, अत एवाऽदः निरूपममित्युच्यते । संसारगतानां सुखानामेव पुद्गलजन्यसुखरुपमानात्, न च संसारे किमप्यपौद्गलिकं सुखमस्ति, येन तेन सिद्धसुखस्याऽपौद्गलिकस्यात्मरूपस्योपमानं स्यादिति ।
यथा हि विदुषामतिगुपिलो भ्रान्तिस्थानं परैज्ञातपूर्वः पदार्थ आयाति निश्चितावबोधविषये यदा, तदा य आनन्दस्तस्याऽऽमनो जायते, तथा कुमारिका वां प्रथमरतिसमागमे यदानन्दसुखमनुभवति, तद् द्वयमपि तादृशं भवति, यद् केनापि नोपमीयते तद्वदन भगवतां सिद्धानामनाबाधपदमुपगतानां संसारदुःखतापनिर्मुक्तानां कर्मज्वालाऽऽवलितः सर्वथा विमुक्तानामात्मस्वरूपभूतं तादृशं सुखं प्रादुर्भवति, यत्केनाप्युपमितुं न शक्यते ।
अत एव सर्वकालीन-सर्वदेवज नगतसुखानां राशिं प्रकल्प्य स राशिरनन्तानन्तशो वर्गेण वय॑ते, तथापि स समूहः सुखस्य भगवत एकस्य यदेकसमयमात्र सुखं तदनन्तभागमपि न सुखसमुदाय तं समानयतीत्युच्यते ।
श्रोतृप्रतीत्यर्थमेव एतदपि, अन्यथा पौद्गलिक-स्वाभाविकसुखयोर्लेशेनापि तुलनाया अभावादिति । येनोपमीयते तोल्येद्वा स सिद्धानामानन्दः, स उपमानभूतस्तुलनारूपो वा पदार्थस्तावत् परस्वरूप एव स्यात् , सांसारिकस्य यावद्व्यवहारस्य पराऽऽश्रितत्वात् । तत्कारगाऽन्वेषणे तु वक्त-- श्रोतृणां सर्वेषां परपुद्गलाऽऽश्रितानामेव व्यवहरणं, यतः आत्मा न पौद्गलिकः, न च तस्य पौद्गलि..