________________
(४२) तदेवं सिद्धेर्योग्यानां क्षेत्र-कालाऽवस्थानामत्यन्तमल्पत्वमेव, जीवाश्चानन्ताऽनन्तसङ्ख्याकाः, यतो लोके यावदसङ्ख्येयाः सूक्ष्मनिगोदजीवानां गोलकाः, प्रतिगोलकं पट्स्वपि दिक्षु एकैकाऽऽकाशप्रदेशहानिवृद्धिभ्यामसङ्ख्येया अवगाहना, अवगाहनायां चैकैकस्यामनन्ताऽनन्ता जीवा इति, जीवानां सङ्ख्या विचार्यते, न स्यादेवाऽनन्तानामपि सिद्धिगतेः प्राप्तौ तद्व्युच्छेदाशङ्काकणोऽपि ।
किञ्च-एकैकस्मिन् निगोदे सूक्ष्मे बादरे वा ये जीवा अनन्ताऽनन्तसङ्ख्याकास्तेषां असहख्येयतमोऽपि भागो न कदापि सिद्धिमवाप्स्यति, किन्तु अतीताऽनागतकालीनाः सर्वेऽपि सिद्धाः सेत्स्यमाना जीवाः सर्वेऽप्येते एकस्याऽपि निगोदस्य जीवानामनन्ततम एव भागे भवति ।
___ एतावति जीवसङ्ख्याने सत्यपि तव्युच्छेदशङ्कायाः प्रादुर्भावो महामोहोदयप्रभवः । परेषां च तथाविधेन वाक्येन व्युद्ग्रहणाद्दरन्ताऽनन्तभवसागरभ्रामकश्च, यथाहि दर्भाग्रबिन्दुप्रमाणस्य पानीयस्य शोपं दृष्ट्वा अदृष्टाऽपार-पारावाणामधीनामम्बुपूरस्य व्युच्छेदः शङ्कयमानो मौग्वर्यमेवाविष्कुर्यात् , तद्वदत्रापि तथाविधे भव्यजीवानामानान्त्ये परिमितक्षेत्र-कालेन सिद्धान् दृष्ट्वा सर्वभव्यव्युच्छेदशङ्कापि मौखर्यातिरेकेण न किञ्चिदन्यद् व्यक्तीकुर्यादिति । .
अत्र दर्भाऽग्रबिन्दुजलधिजलगतं दृष्टान्तं सङ्ख्ययाऽननुरूपमपि व्यावहारिकतयोक्तं ज्ञातव्यमिति, यतो दर्भाऽप्रगतबिन्दुसमुद्रसलिलस्याध्यक्षं सङ्ख्यगुणेनैव तारतम्यं, न त्वसङ्ख्येयेन गुणेन, न चानन्तगुणेन, सिध्यमाननिगोदजीवानां त्वेकमपि निगोदगतजीवसमुदायमाश्रित्य तारतम्यमनन्तगुणेनैव भावादिति ।
न च वाच्यं तर्हि भव्यानाममि सतां मुक्तेरभावे भव्यत्वस्य निष्फलता अभव्यनिर्विशेषता वा तेपामिति, यतो नहि जगति यावन्ति बीजानि तानि प्रादुर्भावयन्त्यङ्कुराशि, न चाङ्कुरप्रादुर्भावाऽभावमात्रेण बीजत्वस्य निरर्थकता, अबीजसमानता वोद्भाव्यते केनापि विपश्चिता, ततश्च भव्यानां यथा यथा तथाभव्यत्वपरिपाको जायते तथा तथा ते पदमव्ययमाप्नुवन्ति, व्यवहारराशिगतानां नराणामेव सिद्धेः साधनस्य सद्भावात् , तेपां च सङ्ख्यातमानत्वात् नैककाले सर्वभव्यानामत्रागमः सिद्धिश्च, न च तत एव भव्योच्छेदः सिद्धेर्युच्छेदो वेति ।
तत्वतस्तु केवलेनैवाऽऽलोकेनाऽववुद्धा जीवास्तदनन्ताऽनन्तसङ्ख्या, सततसिद्धिभावो भव्यानां, जीवानां संसारस्य चाऽऽयवच्छेद इत्यतीन्द्रियार्थदर्शिवचनविश्वस्तेर्भाव्यमिति ।..
यथैवेन्द्रियपुद्गलानामिटानिष्टानां विद्यते ज्ञान दर्शनस्वभावस्य साधकता विपर्यासकता च, तथैव साताऽसातकर्मपुद्गलानामपि आत्मस्वभावस्य वेदनस्योपष्टम्भकत्वाद्विपर्यासकारित्वाच्चोपयोगो, न तु ते आत्मनः स्वभावस्याऽऽवारकाः, क्षये तु साताऽसातयोः सुखस्वभावस्यात्मनो निरावाधसुखमयत्वं सिद्धावेव भवति, अन्यत्र साताऽसातान्यतरकालतत्वस्य नियतत्वादिति प्राहुः-'निरुपमसुखसगाता' इति ।