________________
(१४) किञ्च-दृश्यन्ते श्रूयन्ते च शास्त्रे पूर्वाऽवस्थायामाभीरादीनां राज्यप्राप्त्यवसाना अपि भावाः । ततोऽधिकेच्छानिवृत्तिकरणेनापि पञ्चमस्याऽनुव्रतस्य स्वीकारः प्रकृतिसुन्दर एवेति ।
ननु 'थूलाओ परिग्गहाओ वेरमण 'मित्यत्राऽणुव्रते परिग्रहशब्देन पर्युपसर्गविशिष्टेन किं ?, यतो ग्रह एवं शब्दः कार्य इति चेत् ? प्राक् तावत् ग्रहणमात्रस्य नाऽऽश्रवत्वं, न च तन्निरोधाय प्रत्याख्यानं, सम्यग्दर्शन-देव-जीवादीनां ग्रहणस्योपादेयत्वात्तस्य मोक्षोपायरुपत्वात् ।
किच्च-प्राह्येषु बाह्येष्वपि न ग्रहणमात्रस्य परिग्रहत्वं, संयमाऽऽदिसाधनानां तत्त्वापातेन त्यागप्रसङ्गात् । किञ्च-आद्य-न्तिमजिनतीर्थयोस्तु स्त्रियाः सत्त्वे परिग्रहत्वे तत्र न तदाऽवतारोऽभिमतः, किन्तु भिन्नाऽऽश्रवतया प्रत्याख्येयता च ।
अपि च ग्रह एव पञ्चमाश्रवतयाऽभिमन्यते तदा तृतीयस्याऽदत्तादानस्य वैयर्थ्य, आदानाsपरपर्यायस्य ग्रहस्यैव ग्रहणात् ।
एतत् सर्वमाशाम्बरेणान्तरेण चेतसा चिन्त्य, यतस्ते सङ्गमात्रस्य परिग्रहत्वमुदीर्य संयमसाधनानि रजोहरणान्याश्रवतयाऽभिमानयन्ति, जिनतीर्थमाश्रितानां तु रजोहरणाऽऽदीषु धर्मसाधनत्वबुद्धेः सद्भावान्ममत्वाऽभावः, तस्मात्तेषां सत्यपि ग्रहे परिग्रहत्वं नेति योग्यमवधारयन्ति संयमसाधनानां धारणं साधूनामिति ।
किञ्च-परिग्रहशब्देन सामान्येन ममत्वस्यैवोद्देशात् 'मूर्छा परिग्रह'त्युक्तं । अन्यच्च मूर्छाया ग्रहणादेव ग्राद्रिव्यैः सह धार्याणामपि द्रव्यपरिग्रहतया गणनं कृतमस्तीति ।
एवं च ' यश्वेह जिनवरमते' इत्युपक्रम्य श्रीप्रशमरतिपकरणकारैः 'संलेखनां च काले योगेनाऽऽराध्य मुविशुद्धा 'मित्यन्त्येन ग्रन्थेन यत् प्रकृतिसुन्दरत्वं दर्शितं तत्सर्वमप्यनूदितमवसेयं, परं केचित् लौकिकसुन्दरव्यवहारवत् व्यवहाराः प्रकृतिसुन्दरा अपि ऐहलौकिकफलपर्यवसाना भवन्ति तद्वन्नैतान्यनुवतानि, किन्तु हित-सुख-क्षेमत्वकारकाण्यपि सन्ति, तानि पारलौकिकफलसम्पादनेऽपि प्रत्यलत्वादानुगामुकानि प्रेत्य सन्तीति दर्शनावाहुः-'आणुगाभियत्तं 'ति, अनुवतानामनुगामुकत्वादेव श्रीपशमरतिकारैः ।
प्राप्तः स कल्पेष्विन्द्रत्वं वा सामानिकत्वमन्यद्वा । स्थानमुदारं तत्रानुभूय च सुखं तदनुरुपम् ।। ३०७ ।। : नरलोकमेत्य सर्वगुणसम्पदं दुर्लभां पुर्नलब्ध्वा । .
: :शुद्धः स सिद्धिमेष्यति भवाष्टकाभ्यन्तरे नियमात् ॥ ३०८ ॥ इति । तथा श्रीयोगशास्त्रकारैः श्रीहेमचन्द्रसूरिभिः श्रीयोगशास्त्रे 'प्राप्तः स कल्पेविन्द्रत्वमन्यद्वा स्थानमुत्तम 'मित्युक्त्वा 'शुद्धात्मा(सिध्यत्य)न्तर्भवा