________________
(१३)
___ एवमणुव्रतानां चतुष्टयं यत् प्रतिपादितं, तत् भगवद्भिस्तीर्थप्रवृत्तिकाले, परं स . तीर्थप्रवृत्ति कालो न समग्रोत्सपिण्यवसर्पिणीरुपः, किन्तु दशकोटीकोटीसागरोपमप्रमाणायां तस्यामेक एव साधिककोटीकोटीसागरमानः, शेषस्तु सर्वोऽपि हीन एव तीर्थप्रवृत्त्या, यस्मिंश्च काले तीर्थस्य प्रवर्तनं भवति, तत्र सर्वस्मिन् क्रय-विक्रयाऽऽदिव्यवहारस्याऽवश्यं प्रवृत्तिर्भवति, स क्रय-विक्रयाऽऽदिव्यवहारश्च विविधजातीयसङ्ग्रहाऽऽधीन' इत्यावश्यकता तत्कालीनानामर्थसङ्ग्रहे, इच्छा च तद्विषयिणी 'इच्छा हु आगाससमा अणंतिये 'ति जनानामपरिमिता स्यादेवाऽतस्तस्याऽर्थजातस्येच्छानिरोधेन परिमाणकरणं तीर्थकालीनानामावश्यकमिति तद्रूपं पञ्चममणुव्रतमथ आहुः सूत्रकाराः। . . .
दृश्यते जगति परिग्रहप्रभव एव सर्वोऽपि व्यवहारस्तद्विषयिण्या इच्छायाश्च 'दोमासकए कज्जं कोडिए व ण णिट्ठियं' तिवचनादपरिमितत्वं ततस्तत्परिमाणकृतेरौचित्यात्तन्मयं पञ्चममणुवसमिति ।
अत्राऽयं विशेषः- यथा प्रतिपन्नाऽवधयो न देशविरतेः प्रतिपद्यमानाः स्युः, आनन्दाऽऽदिवत् । पूर्वप्रतिपन्नास्त्ववधेरधिगमवन्तो भवन्ति, यद्यपि ते सर्वविरतेः स्युरेव प्रतिपद्यमानकाः पूर्वप्रतिपन्नाश्चो. भयेऽपि । तदा मण्डलाधिपा राजानोऽपि शासने जाता बहवः सर्वविरतेः प्रतिपद्यमानकाः, परं
तेषामाऽऽकाश-पातालं स्वमण्डलस्य स्वामित्वात्तत्र स्थितस्यापि यस्य कस्यचिदर्थजातस्याऽज्ञातस्याऽपि स्वामित्वाद् तद्विषयकगणनाया अभावाच न परिमितेच्छापरिमाणकरणरुपमणुव्रतं पञ्चमं । -
अत एव भगवतो महावीरस्य शासनेऽपि राज्ञामनेकेषां प्रवजितत्वेऽपि राज्ञः श्रेणिकस्य परमभक्तत्वेऽपि श्रमणोपासकपर्षद्गणनाऽवसरे शङ्ख-शतकाऽऽदय एवोपात्ताः, तेषां सद्गृहस्थानामेवेच्छापरिमाणकरणरुपस्य पञ्चमस्याऽणुव्रतस्य सम्भवादिति ।
किञ्च-आदृतानामपि अणुव्रतानां पूर्वोदितानां यावन्न स्यान्महेच्छत्वं महाऽर्थभराऽऽक्रान्तत्वं च तावदेव रक्षणं, । यतो जगति प्राप्तयेऽर्थसञ्चयस्य प्राप्तस्याऽस्य वा रक्षणे हिंसादीनामाधिरूपं जायमानं दृश्यते, कथ्यते च 'परिग्रहमहत्त्वाद्धि, मज्जत्यङ्गी भवाम्बुधावि 'ति परिमाणकरणमर्थस्योचितमिति ।
न च वाच्यं प्राप्तानामर्थानां सन्तोषेण नूतनस्याऽर्थस्योपादानेच्छा परिहियते, तदा दानेन सन्तोषस्योत्पादादधिकाऽर्थग्रहणस्य निवृत्तेश्च स्यादस्याणुव्रतस्य प्रकृतिसुन्दरता, परं निःस्वोऽपि स्वल्पवित्तोऽपि सन् कल्पनागतं परिग्रहं मुत्कलय्य शेषात् परिग्रहान्निवृत्ति कुर्वन् विदधाति परिग्रहपरिमाणकरणरुपमणुव्रतं पञ्चमं तेन कि फलमिति ? इच्छायाः प्रोक्तनीत्या आकाशसमत्वेनाऽऽनन्त्यान् (१) वर्तमानकालीनकल्पनानुसारेणाऽपीच्छाया नियतत्वकरणेन परिग्रहपरिमाणकरणमपि तदधिकेच्छाया निवृत्तेः फलप्रदमेव ।