________________
टक 'मित्युक्तं, पवित्रतमे उदयने राजर्षी अत्यन्तवैरोऽप्यभीचिर्यदेवत्वमाप तदनुवतमाहात्म्यादेवेति ।
• यथैव हि आश्रवनिरोधरुपत्वाद् देशविरतिरुपाण्यणुव्रतानि देशविरतात्मनां नव्यकर्माऽऽगमरोधेन हितकारकत्वात् प्रकृतिसुन्दराणि, तथैव · परेषामपि तदीयजीवनेच्छापरिपूर्णताद्यैरुपकारकाणीत्युक्तं मीति 'परोपकारित्व 'मिति ।
___ न च वाच्यं तावजीवानां वैधाद् विरमणं व्रतोत्सुकः स्वाऽऽश्रवरोधाय कुर्याधत्तत्तु वरं, परं परेषां हिंसास्थानमापद्यमानानां जीवानां त्वविरतत्वान्न तज्जीवनादीच्छा वतिनां श्रेयस्करी, तद्भावे च (न) प्रथमस्यापि व्रतस्य परोपकारित्वमिति । यतः प्राक् तावत्
___ 'सव्वे जीवा वि इच्छंति जीविउं ण मरिजिउ ।
तम्हा पाणवहं घोरं णिग्गंथा वज्जयंति णं' ॥१॥ -तिपारमर्षवचनान् मृषैवैतद्वचो, यदुत-परेषां जीवन-रक्षणाऽपेक्षया नाऽणुव्रताऽऽदीति । .
किञ्चोपकरणेषु संसक्किजातादीनां कीटादीनामपि पारमर्षे 'णो णं संघायमावज्जेज्जे 'ति 'एगंतमवक्कमेजे 'त्यादि चोक्तं । ___अन्यच्च प्राणिनां प्राणानां रक्षणायैव हि संसर्गमार्गगमनप्रसङ्गे पारमर्षेऽमिहितं :उद्धटु पाए रीएज्जे 'ति । अन्यच्च प्राणिनां रक्षणमेव नैष्टव्यं चेत्, त्रस-स्थावरविराधनाप्रसङ्गे उत्सर्गाऽपवादपपथविचारणं श्रीओघनियुक्त्यादौ किं कृतमिति ?
किञ्च-'भूत-व्रत्यऽनुकम्पे 'त्यादिना तत्त्वार्थसूत्रेण पाणाणुकंपयाए 'इत्यादिना व्याख्यामज्ञप्तिसूत्रेण प्राणाद्यनुकम्पनस्यैव सातवेदनीयस्याऽऽश्रवादिषु कारणोक्का । न च विरतिरुपा साऽनुकम्पेति, विरतेः अणुव्वये 'त्यादिना स्वर्गहेतुत्वाद्युक्तेः । अनुकम्पायास्तु 'साणुकोसयाए' इत्यादिना . मनुष्याऽऽयुःकारणताया उक्तेः, श्रीमेधकुमारेण च मनुष्याऽऽयुः शशाऽनुकम्पयैव लब्धमिति ज्ञातधर्मकथासु प्रसिद्धं, अलब्धसम्यक्त्वाच्च तस्य, विरतिरुपत्वं न तस्याः लेशतोऽपीति युक्तमाघस्य व्रतस्व परोपकारित्वमिति ।
किञ्च-जगतो दुःखनाशायैव वरबोधेर्विचारः, तत एव जिननामकर्मबन्धः, न च समग्रं जगत् विरतिधारकं । अन्यच्च जिननामकर्म सम्यक्त्वमूलकं, तदुदये च येऽतिशयाः जायन्ते, तेभ्यो दुर्भिक्षे-ति-मूषक-शलभाऽतिवृष्टयो ये उपद्रवाः शाम्यन्ति, ते किं न प्रेक्ष्यन्ते ?
तथा चाऽविरतादीनामपि सर्वेषां मरणादि निवारणं नाऽनिष्टं । यदि चाऽविरततया पापाsनुमतिः स्यात्तर्हि तु हिंसात्यागोपदेश एव न कर्तव्यः, तनिषेधात् जीवनस्य पापाऽनुमतेश्च स्वयं सिद्धत्वभावाद् इत्यलं निर्विचारेण सह विचारेण ।